पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये देशं तिरः अन्तर्धाय अतिरोचते अतिशयेन दीप्यते । स न इत्यादि [गतम्] ॥ चतुर्थी ॥ यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ा सं च पश्य॑ति । स नः॑ः पर्षदति॒ द्विषि॑ः ॥ ४ ॥ यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । सः । नः । पर्षत् । अत । द्विषः ॥ ४ ॥ योनिः विश्वा भुवना विश्वानि भुवनानि अभि विपश्यति अभितः सर्वतो जाठररूपेण प्रदीपादिरूपेण वा विविधं पश्यति सं पश्यति च ऐकरूप्येण सूर्यात्मना प्रकाशयति । स न इत्यादि गतम् ॥ पञ्चमी ॥ यो अ॒स्य पि॒ारे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स नः॑ः पर्षद॒ति॒ द्विषि॑ः ॥ ५ ॥ यः । अस्य । पारे । रज॑सः । शुक्रः । अ॒ग्निः । अजोयत । सः । नः । पर्षत् । अति॑ । द्विषः ॥ ५ ॥ । अस्य रजसः पार्थिवस्य लोकस्य पारे अवसाने पर्यवसानभूमौ अन्त- रिक्षे यः शुक्रः निर्मल: सूर्यात्मकः अग्निरजायत उदपद्यत । सन इ- त्यादि गतम् ॥ षष्ठी ॥ वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्रया॑तु परा॒वत॑ः । अ॒ग्निः सुष्टुतीरुप॑ ॥ १ ॥ वै॒श्वा॒न॒रः । नः॒ः । ऊ॒तये॑ । आ । प्र । य॒ातु । परा॒ऽवत॑ः । अ॒ग्निः । नः । सुऽस्तुती । उप॑ ॥ १ ॥ वैश्वानरः विश्वनरहितः अग्निः नः अस्माकम् ऊतये रक्षणाय परां- १ ABKRÖPJCT. We with BDKPV. २ PJ अजायत Cr अजयत corrected into अजायत We with PK.