पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू°३६.]२०९ षष्ठं काण्डम् । ६९ वत: दूरदेशाद् आ म यातु अभिमुखं प्रगच्छतु । गंवा च सोग्निः नः अस्माकं सुष्टुती: शोभनस्तुती: उप यातु उपगच्छतु ॥ सप्तमी ॥ वैश्वानरो न आग॑ममं यज्ञं सजा॒रुप॑ । अग्निरुक्थेष्वंह॑सु ॥ २ ॥ वैश्वान॒रः । नः । आ । अगमत् । इ॒मम् । य॒ज्ञम् । स॒ऽजूः । उप॑ । अ॒ग्निः । उ॒क्थेषु॑ । अंह॑ऽसु ॥ २ ॥ वैश्वानरोग्निः नः अस्मान् आगमत् आगच्छतु । आगत्य च अंहसु अभिगन्तव्येषु उक्थेषु अस्माभिः क्रियमाणेषु स्तुतशस्त्रेषु सजूः समानप्री- तिः सन् अस्मदीयम इमं यज्ञम् उप गच्छतु ॥ अष्टमी ॥ वैश्वा॒न॒रोङ्गि॑रस॒ स्तोम॑मु॒क्यं च॑ चक्लृपत् । ऐषु॑ यु॒म्नं स्वर्यमत् ॥ ३ ॥ वैश्वान॒रः । अङ्गरसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृप॒त् । आ । ए॒षु । द्युम्नम् । स्वः । य॒मत् ॥ ३ ॥ वैश्वानरोग्निः अङ्गिरसाम महर्षीणां तत्कर्तृकं स्तोमम् स्तोत्रम् उक्थम् शस्त्रं च चकृपत् कॢप्तं समर्थम् अकार्षीत् । एषु अङ्गिरःसु द्युम्नम् द्योत- मानं यशः अन्नंं वा स्वः सुठु अरणीयं प्राप्तव्यम् आ यमत् आगमयत् । यडा युम्नम् द्योतमानं स्वः कर्मफलभूतं स्वर्गसुखं प्रापयद् इत्यर्थः ॥ [ इति ] द्वितीयं सूक्तम् ॥ 66 - 'ऋतावानं वैश्वानरम्” इति तृचस्य सर्वरोगभैषज्यकर्मणि पूर्वतृचेन सह उक्तो विनियोगः । सूत्रं च तत्रैवोदाहृतम् ॥ 99 उप मागात् सहस्राक्षः इति तृचेन अभिचारजनितदोषनिवृत्तये अ- भिमन्त्रिवायाः श्वेतमृत्तिकायाः शुने प्रदानम् संपादिताभिमन्त्रितपालाश- 18 दत्वा for गन्त्रा