पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये श॒प्तार॑म् । अत्र॑ । नः॒ । ज॒हि॒ । दि॒वः । वृक्षमऽइ॑व । अ॒शनि॑ः ॥ २ ॥ हे शपथ नः अस्मान् परि वृद्धि परिहर मा बाधिष्ठाः । इँदम शत्रु- कुलम अग्निरिव दहन । भस्मसात् कुर्वन्नित्यर्थः । एवं च अत्र अस्मिन् देशे नः अस्माकं शतारम् शापकारिणं शत्रुमेव जहि नाशय । दिवः सकाशात् पतितोशनिः यथा वृक्षं निहन्ति तद् इत्यर्थः ॥ ७२ षष्ठी ॥ यो नः॒ शपा॒दश॑पत॒ शप॑तो॒ यश्च॑ म॒ शपा॑त् । शुने॒ पेष्टु॑मि॒वाव॑क्षानं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥ ३ ॥ यः । नः । शर्पात् । अर्शपतः । शर्पतः । यः । च । नः । शर्पात् । शुने॑ । पेष्ट॑मऽइव । अव॑ऽक्षामम् । तम् । प्रति॑ । अ॒स्या॒ामि॒ । मृ॒त्यवे॑ ॥ ३ ॥ । यः शत्रु: अशपत: अशापकारिणो नः अस्मान् शपात् परुषभाषणेन शपेत् । यश्च [ शपतः ] शापकारिणो नः अस्मान् शपात् शपेत् । तम् उभयविधं शत्रु शुने कौलेयकाय पेष्टम पिष्टमयं खाद्यमिव अवक्षामम् अवदग्धं कृत्वा मृत्यवे यमाय प्रत्यस्यामि प्रतिक्षिपामि । ॐ अवपूर्वात् क्षायते: “क्षायो मः" इति निष्ठातकारस्य मकार: छु ॥ [ इति ] तृतीयं सूक्तम् ॥ 66 'सिंहे व्याघे [६. ३७] यशो हवि: [६.३९ ]" इति तृचाभ्यां वर्चस्कामः स्नातकसिंहव्याघ्रादीनां सूत्रोक्तानां सप्तानाम् अन्यतमस्य नाभिलोममणि लाक्षाहिरण्याभ्यां वेष्टयित्वा संपात्य अभिमन्त्र्य बनीया ॥ तथा आभ्यामेव तृचाभ्यां पालाशादिदशशान्तवृक्षशकलनिर्मितमणि ला क्षाहिरण्यवेष्टितं संपात्य अभिमन्त्र्य वर्चस्कामो बनीयात् ॥ 66 सूत्रितं हि । 'लोमानि जतुना संना जातरूपेणापिधाप्य सिंहे व्याघे “यशो हविरिति स्नातक सिंहव्याघ्रबस्तवृष्णिवृषभराज्ञां नाभिलोमानि द- शानां शान्तवृक्षाणां शकलान् । एतयोः” इति [ कौ०२, ४ ] ॥ 66 १ So all our Vaidikas and manuscripts. 1 S परितो.