पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू°३४.]२११ षष्ठं काण्डम् । ७३ तथा उत्सर्जनाख्ये कर्मणि आभ्यां तृचाभ्याम् आज्यं हुवा रसेषु सं- पातान् आनयेत् । सूत्रितं हि । 'फल्गुनीषु इयान् रसान् उपसादयति' इति प्रक्रम्य 'सिंहे व्याघे [ ६.३७ ] यशो हवि: [ ६.३९] यशसं मेन्द्रः [ ६. ५७ ]” इत्यादि “अनौ हुत्वा रसेषु संपातान् आनीय ” इत्यन्तम् [ कौ० १४.३] ॥ 66 तत्र मथमा ॥ हे व्याघ्र उ॒त या पदा॑ो विषि॑र॒नौ ब्रह्म॒णे सूर्ये या । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान सा न ऐतु॒ वर्च॑सा संवाना ॥ १ सिंहे । व्याघ्रे । उत । या । पृर्दाकौ | विषि॑ः । अग्नौ । ब्राह्मणे | सूर्यै । या । — इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जाव॑ । सा । नः॒ः । आ । ए॒तु । वर्च- सा । स॒मऽवि॒द॒ाना ॥ १ ॥ सिंहे सहनशीले मृगेन्द्रे व्याघे शार्दूले च या विषिः दीप्तिरस्ति उत अपि च पृदाको सर्पे अग्नौ ब्राह्मणे सूर्ये च या दीप्तिरस्ति । त्विष्या- त्मिका सुभगा सौभाग्ययुक्ता या देवी इन्द्रं जजान जनयामास । अत्र सिंहादिषु त्रिषु आक्रमणशक्तिरूपा विषिर्विवक्षिता अभ्यादिषु त्रिषु दा- हशायंतापात्मिका । सा विष्यात्मिका देवी वर्चसा अस्मदभीप्सितेन तेजसा संविदाना संज्ञानाना ऐकमत्यं गता नः अस्मान् ऐतु आगच्छतु ॥ द्वितीया ॥ या ह॒स्तिनि॑ ह॒ीपिनि॒ या हिर॑ण्ये॒ विषि॑र॒प्सु गोषु या पुरु॑षेषु । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान सा न ऐतु वर्चेसा संविदाना ॥ २ ॥ या । ह॒स्तिनि॑ । ह॒ही॒पिने॑ । या । हिर॑ण्ये । विषि॑ः । अ॒प्ऽसु । गोषु॑ । या । पुरु॑षेषु । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ । सा । नः॒ । आ । ए॒तु॒ । वच॑सा । समऽवदाना ॥ २ ॥ १PPJ हिरण्यै We with Cr. 1S' फल्गुनेषु. Ve with Kausin. १०