पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ अथर्वसंहिताभाष्ये या विषिः हस्तिनि गजेन्द्रे द्वीपिनि तरक्षौ हिरण्ये च या विषिर- स्ति । गजेन्द्रे तावद् बलोत्कर्षरूपा विषि: द्वीपिनि हिंसनरूपा हिरण्ये आह्लादविषयतां वर्णोत्कर्ष: । अप्सु उदकेषु गोषु पुरुषेषु मनुष्येषु च या तत्तदसाधारणरूपा विषिरस्ति । या च देवी [सुभगा] सौभाग्ययुक्ता वि ष्यात्मिका देवी इन्द्रं जजानेत्यादि पूर्ववद् योजना । अस्विति । 'ऊडिदम्" इति विभक्त्युदात्तत्वम् । गोष्विति । सावेकाच: " इति प्राप्तस्य विभक्त्युदात्तत्वस्य “न गोश्वनसाववर्ण" इति प्रतिषेधः तृतीया || 66 रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । 1 इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान सा न ऐतु वर्च॑सा संविदाना ॥ ३ ॥ रथे॑ । अ॒क्षेषु॑ । ऋ॒ष॒भस्य॑ । वाजे॑ । वने॑ । प॒र्जन्ये॑ । वरु॑णस्य॒ | शु॒मे॑ । इन्द्र॑म् । या । दे॒वी । सु॒ऽभया॑ । ज॒जाव॑ । सा । नः॒ । आ । ए॒तु । वर्चे- सा | सम्ऽविद्वाना ॥ ३ ॥ . । गमनसाधने रथे अक्षेषु च तदीयेषु वृषभस्य सेचनसमर्थस्य पुंगवस्य वाजे वेगगमने वाते वायौ पर्जन्ये वृष्टिमदे मेघे वरुणस्य तदधिष्ठातुर्देवस्य शुष्मे शोषके बले च या प्रतिनियतस्वभावा विषिरस्ति । अन्यत् पूर्ववत् ॥ चतुर्थी ॥ राज॒न्ये दुन्दुभावाय॑ताया॒ामश्व॑स्य॒ वाजे पुरु॑षस्य मायौ । । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान सा न ऐतु वर्च॑सा संविदाना ॥ ४ रा॒ज॒न्ये॒ । दु॒न्दु॒भौ । आऽय॑तायाम् । अश्व॑स्य । वाजे॑ । पुरु॑षस्य । मा॒यौ । इन्द्र॑म । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ । सा । नः॒ः । आ । ए॒तु । वर्च॑सा । सम्ऽविद्वाना ॥ ४ ॥ राजन्ये राज्ञोऽभिषिक्तस्य पुत्रो राजन्य: राजश्वशुराद् ८ 66 यत् ” । “ये चाभावकर्मणोः” इति प्रकृतिभावः । ति स्वरितः” इति 1 So S'. 66