पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये इन्द्र वर्धय समृद्धं कुरु । ४" वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छ- न्दसि " इति तातिल् प्रत्ययः । दीर्घाय चक्षसे प्रसत्रणम् इति वा संबन्धः ॥ अच्छ॑ न॒ इन्द्र॑ य॒शसं॒ यशभिर्यश॒स्विनं॑ नमसा॒ना विधेम स नो॑ राख राष्ट्रमिन्द्र॑जूनं॒ तस्य॑ ते रा॒तौ य॒शस॑ः स्याम ॥ २ ॥ अच्छ॑। नः॒। इन्द्र॑म्। य॒शस॑म् । यश॑ःऽभिः । य॒श॒स्विन॑म् । नम॒सा॒नाः । वि॒धेम् । सः । नः॒ः । रा॒स्व॒ । रा॒ष्ट्रम् | इन्द्र॑ऽजूतम् । तस्य॑ । ते॒ । रा॒तौ । य॒शस॑ । । स्याम ॥ २ ॥ नः अस्माकम् अच्छ आभिमुख्येन वर्तमानम् इन्द्रं यशसम् यशोरूपं ॐ यश: शब्दात् क्यजन्तात् किपि अतोलोप- अन्तोदात्तत्वम् । यशोभिः कीर्तिभिः यशस्विनम् प्रभूतयशस्कम् एवंभूतम् इन्द्रं नमसाना: नमस्यन्तः नम- स्कारादिभिः पूजयन्तो वयं विधेम परिचरेम ॥ हे इन्द्र स त्वं नः अ- स्मभ्यम् इन्द्रजूतम् इन्द्रेण त्वया प्रेरितं राष्ट्रम राज्यं रास्त्र देहि । रा- सृ दाने | तस्य ते तव रातौ दाने यशसः यशस्विनो वयं स्या- म भवेम ॥ यशसः प्रदातारम् । यलोपौ । “चित: ” इति सप्तमी ॥ 1 य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्यशाः सोमो॑ अजायत । य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्म य॒शस्त॑मः ॥ ३ ॥ य॒शाः । इन्द्र॑ । य॒शाः । अ॒ग्निः । य॒शाः । सोम॑ः । अ॒जाय । य॒शाः । विश्व॑स्य । भू॒तस्य॑ । अ॒हम् । अ॒स्मि॒ । य॒शऽत॑म ॥ ३ ॥ इन्द्रो देवो यशाः यश आत्मन इच्छन् वर्तते । X पूर्ववद् यश- स्यतेः किपि रूपम् । तथा अग्निरपि यशाः यशस्कामो भवति । तथा सोमञ्च यशाः यश इच्छन् अजायत । यथैवम् इन्द्रादयो यशस्विनो