पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ४०.]२१३ षष्ठं काण्डम् | जाताः एवं यशाः यशस्काम: अहमपि विश्वस्य भूतस्य सर्वस्य भूतजात- स्य देवमनुष्यादेः सकाशाद् यशस्तमः अतिशयेन यशस्वी अस्मि भवामि ॥ [ इति ] चतुर्थ सूक्तम् ॥ अभयं द्यावापृथिवी” इति तृचेन ग्रामाद्यभरकामः तस्यैव प्रति- दिशं सप्तर्षीन यजते उपतिष्ठते वा । सूत्रितं हि । “ अभयं द्यावापृथि- वी [ ६. ४०] श्येनोसि [ ६. ४६ ] इति प्रतिदिशं सप्तर्षीन् अभयकाम: " इति [कौ०७.१०] ॥ 66 "" तथा सेनाभयनिवृत्त्यर्थं तस्याः प्रतिदिशं सप्तर्षीणां यागम् उपस्थानं वा कुर्यात् । "अभयानाम अप्ययः [ कौ०२.७] इति सूत्रात् ॥ • तथा अनेन तृचेन उपाकर्मणि आज्यं जुहुयात् । “अभिजिति शि- ष्यान् उपनीय” इति प्रक्रम्य सूत्रितम् । अभयैरपराजितैराज्यं जुहु- यात् इति [ कौ०१४.३] ॥ [ 66 66 ‘मनसे चेतसे धिये” इति तृचेन गोदानाख्ये संस्कारकर्मणि महा- व्रीहिमयं स्थालीपाकं शान्त्युदकेन अभ्युक्ष्य अभिमन्त्र्य आयुष्कामं माण- वकं प्राशयेत् । सूत्रितं हि । 'यथा द्यौः [२.१५] मनसे चेतसे धिये “[ ६. ४१ ] इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन उप- “सिच्याभिमन्य प्राशयति" इति [ कौ०७.५] ॥ ८८ तत्र प्रथमा ॥ अभ॑यं द्यावापृथिवी इहास्तु नोभ॑यं सोम॑ः सवि॒ता न॑ः कृणोतु । अभ॑यं नोस्तूर्वैप॒न्तरि॑क्षं सप्तऋ॒षी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥ १ ॥ ३ 4 अभ॑यम् । धा॒ावा॒पृथि॒वी इति॑ । इ॒ह । अ॒स्तु॒ । नः॒ । अभ॑यम् । सोम॑ः । स॒- वि॒ता । नः॒ः । कृणोतु । अभ॑यम् । नृः । अ॒स्तु॒ । उ॒रु । अ॒न्तरि॑क्षम् । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । ह॒वि- षो । अभ॑यम् । नः । अस्तु ॥ १ ॥ 39 १ BÊ ३ for १. ₹ ½ सप्तर्षी ३ P ॠषीणम्. We willf P J Crn. 1S' 'बीहियवं. We with the Ksari.