पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९ [अ० ४. सू° ४१.]२१४ षष्ठं काण्डम् । “तु | तथा अशत्रु: अनुपजातविरोधी इन्द्रो देवः नः अस्माकम् अभ- यम् शत्रुनिमित्तभयराहित्यं कृणोतु करोतु । तत्प्रसादाद् राज्ञां मन्युः को- धः अस्मत्तः अन्यत्र अभि यातु अभिगच्छतु ॥ तृतीया ॥ अनमित्रं नो अधराद॑नमि॒त्रं न॑ उत्त॒रात् । इन्द्रा॑नमि॒त्रं न॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥ ३ ॥ अनमित्रम् | नः । अधरात् । अनमित्रम् | नः । उत्तरात् । इन्द्र॑ । अ॒न॒मि॒त्रम् । नः॒ः । पश्चात् । अ॒न॒मि॒त्रम् । पुरः । कृधि॒ ॥ ३ ॥ हे इन्द्र नः अस्माकम् अधरात् । अधरशब्दो दक्षिणदिग्वाची | द- क्षिणस्या दिश: अनमित्रम् अमित्राः शत्रवः तद्राहित्यं कुरु । तथा उ तरात् उत्तरस्या दिशः सकाशाद् नः अस्माकम् अनमित्रम् शत्रुराहित्यं कुरु । “उत्तराधरदक्षिणाद् आतिः” इति आतिप्रत्ययः । हे इन्द्र नः अस्माकं पश्चात् पश्चिमदिग्भागात अनमित्रम् अमित्रराहित्यं कु- रु । पुरः पुरस्तात् पूर्वस्या दिश: अनमित्रम् अमित्रराहित्यं कृधि कु

  • “ श्रुशृणुपृकृवृभ्यः॰

(0" इति हेर्धिरादेशः ॥ चतुर्थी || मन॑से॒ चेत॑से धि॒य आकृ॑तय उ॒त चित्त॑ये । मत्यै श्रुताय चक्ष॑से वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ १ ॥ मन॑से । चेत॑से । धि॒ये । आऽकृ॑तये । उ॒त । चित॑ये । म॒त्यै । श्रु॒ताय॑ । चक्ष॑से । वि॒धेम॑ । ह॒विषा॑ । व॒यम् ॥ १ ॥ मनसे मननसाधनाय सुखाद्यापरोक्ष्यनिमित्ताय इन्द्रियाय । चेतसे । चेतस इत्यादिभिस्तस्यैवावस्थाविशेषा उच्यन्ते । चेतसे सम्यग्ज्ञानसाधना- चिती संज्ञाने इत्यस्मात् करणे असुन् । धिये ध्या- नसाधनाय । आकृत्ये संकल्पाय | उत अपि च चित्तये यत्संबन्धात् पु- रुषश्चेतन उच्यत सा चित्तिः अतीतादिविषयस्मृतिहेतुः । मत्यै आगामि