पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ४२.]२१५ षष्ठं काण्डम् । ८१ मा । नः॒ः । ह॒ाति॒षुः । ऋष॑यः । दैव्या॑ः । ये । त॒नूऽपाः । ये । नः॒ः । त॒न्वः । तनूज्जाः । अम॑र्त्याः । मर्त्योन् । अभि । नः | सचध्वम् । आयु॑ः । धत्त॒ | भतरम् । जीवसे॑ । नः॒ ॥ ३ ॥ दैव्या: देवेषु भवा ऋषयः अतीन्द्रियार्थदर्शिनः प्राणाधिदेवताः सप्त ऋषयः नः अस्मान् मा हासिषुः मा परित्यजन्तु । ये ऋषयस्तनूपाः तन्वाः शरीरस्य पातारः ये च॑ नः अस्माकं तन्वः शरीरात तनूजा: श- रीरसंबन्धितयैव इन्द्रियात्मना उत्पन्नाः । ते ऋषयः मा हासिषुरिति सं- बन्धः ॥ हे अमर्त्या: अमरणधर्माणो देवा: मर्त्यान मरणधर्मकान् नः अस्मान् अभि सचध्वम् अभितः प्राप्भुत । नः अस्माकं जीवसे जीव- नाय प्रतरम् प्रकृष्टतरम् आयुः जीवनं धत्त प्रयच्छत । ॐ डुधाञ् दानधारणयोः ॥ इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे चतुर्थोनुवाकः ॥ पञ्चमेनुवाके पञ्च सूतानि । तत्र अव ज्यामिव " इति आद्यं सू- तम् । तत्र आद्येन तृचेन स्त्रीपुरुषयोः स्त्रीविषये पुरुषस्य मन्युविनाशार्थं कुपितं पुरुषं पश्यन् अश्मानम् अभिमन्य हस्सेन गृहीत्वा सखाया- विव” इति द्वितीयाम ऋचं जपन्, अश्मानं भूमौ प्रक्षिप्यं “अभि ति- इति तृतीयाम् ऋचं जपन् तस्याश्मन उपरि निष्ठीवेत् ॥ तथा तस्मिन्नेव कर्मणि कुपितस्य पुरुषस्य च्छायायाम अनेन तृचेन ध- नुरभिमन्त्र्य सज्यं कुर्यात् । एवं पुरुषविषये स्त्रिया मन्युविनाशार्थम् उक्तं कर्म कुर्यात् ॥ ष्ठामि 66 सूत्रितं हि । 'अव ज्यामिवेति दृष्ट्वाश्मानम् आदत्ते । द्वितीययाभिनि- दधाति । तृतीयवाभिनिष्ठीवति । छायायां सज्यं करोति" इति [ कौ० ४.१२] ॥ तथा दीक्षायां यजमान: ऋोधे प्राप्ते एवं तृचं जपेत् । अव ज्या- मिव" इति वैतानं सूत्रम् [वै॰३.२] n 66 &' 1S inserts अध्यात्म affer च. 66 66