पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सर्वविषयमन्युविनाशार्थम् “अयं दर्भः" इति तृचेन दर्भमूलम ओ- षधिवत् खावा संपात्य अभिमन्त्र्य बनीयात् । “अयं दर्भ इत्योषधिवत् " इति [चरै० ४.१२ ] सूत्रात् ॥ तत्र प्रथमा ॥ ८२ अव॒ ज्यामि॑व॒ धन्व॑नो म॒न्युं त॑नोमि ते हृदः । यथा संम॑नसौ भूत्वा सखा॑याविव सचा॑वहै ॥ १ ॥ अव॑ । ज्यामऽइ॑व । धन्व॑नः । म॒न्युम् । त॒न॒ोमि॒ । ते॒ । हृदः॑ । यथा॑ । समा॒ऽम॑न॒सौ । भूत्वा । सखा॑यौऽइव | सचा॑वहे ॥ १ ॥ धन्वनः धनुर्दण्डात् ज्यामिव यथा आरोपितां ज्यां धानुष्कोऽवरोपयति तथा हे पुरुष ते तव हृदः हृदयाद् मन्युम् क्रोधम् अव तनोमि अ- वरोपयामि । अपनयामीत्यर्थः । यथा येन प्रकारेण आवां संमनसौ समानमनस्कौ परस्परानुरागयुक्तौ भूत्वा सखायाविव समानख्यानौ सुह- दाविव सचावहै समवेतौ संगतो एक कार्यकारिणौ भवाव । तथा त्वदी- यं क्रोधम् अपनयामीत्यर्थः । अषच समवाये इति धातुः ॥ द्वितीया ॥ सखा॑याविव सचावा अव॑ म॒न्युं त॑नोमि ते । अ॒धस्ते॒ अश्म॑नो म॒न्युमुपा॑स्यामसि॒ यो गुरुः ॥ २ ॥ सखा॑यौँऽइव । स॒च॒व॒है॒ । अव॑ । म॒न्युम् । त॒नो॒मि॒ि । ते । अ॒धः । ते॒ । अश्म॑नः । म॒न्युम् । उप॑ । अ॒स्या॒ाम॑सि॒ । यः । गुरुः ॥ २ ॥ सखायाविवेत्यादि उक्तार्थम् । हे क्रुद्ध पुरुष ते त्वदीयं मन्युम क्रोधं यो गुरुः गौरवोपेतचालयितुम् अशक्यः अश्मास्ति तस्य अश्मनः अ- धस्ताद् उपास्यामसि उपक्षिपामः । ४ " इदन्तो मसिः "टु ॥ तृतीया ॥ अ॒भि ति॑िष्ठामि ते म॒न्युं पार्ष्या मर्पदेन च । यथा॑वशोच्च वादि॑षो मम॑ चित्तमुपाय॑सि ॥ ३ ॥ १ K सौ० fur सं.