पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । अ॒भि । ति॒ष्ठाभिः॒ । ते । म॒न्युम् । पाण्य | प्रऽप॑दन । च । यथा॑ । अव॒शः । न । वादि॑िषः । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥ ३ ॥ [अ० ५. सू° ४३.]२१६ हे क्रुद्ध पुरुष ते तव मन्युम क्रोधं पार्ष्या पादापरभान पदेन पादाग्रेण च अभि तिष्ठामि उपरि तिष्ठामि । पादस्य पूर्वापरभागाभ्यां निष्पीडयामीत्यर्थः । यथा येन प्रकारेण अवशः परवशः सन् न वा- दिषः न ब्रूया: प्रतिवचनसमर्थो न भवेः । येन च प्रकारेण मम चि- तम् मदीयं मनः उपायसि उपगच्छसि । तथा अभितिष्ठामीति संब- न्धः । वादिष इति । वदेर्लेटि अडागमः । 'सिब्बहुलम्" इति सिप् । सच णिद्वक्तव्यः” इति स्मरणाद् उपधावृद्धिः ॐ ॥ चतुर्थी | 66 66 अ॒यं द॒र्भो विम॑न्युः स्वाय॒ चार॑णाय च । म॒न्योर्वम॑न्युकस्या॒ायं म॑न्युशम॑न उच्यते ॥ १ ॥ अ॒यम् । द॒र्भः । विऽम॑न्युकः । स्वाय॑ । च॒ । अर॑णाय । च । म॒न्योः । विऽम॑न्यु॒कस्य । अ॒यम् । म॒न्युऽशम॑नः । उच्यते ॥ १ ॥ अयं पुरोवस्थितो दर्भः स्वाय ज्ञातये आत्मसंबन्धिने अरणाय अरा- तये च विमन्युकः मन्युविगमनस्य क्रोधापनयनस्य हेतु: । इष्टजनविषयम् अनिष्टजनविषयं तत्कर्तृकं वा क्रोधं शमयतीत्यर्थः । * स्वायं चार- >> 66 णाय चेति परस्परसमुच्चयार्थी चकारौ । "स्वम् अज्ञातिधनाख्यायाम् " इति गणसूत्रेण ज्ञातिवाचिन: स्वशब्दस्य सर्वनामसंज्ञायाः पर्युदासात् त- कार्याभावः । यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति [ऋ० ६.७५.१९.] इति हि निगमः । उक्त एवार्थो विव्रियते मन्योरि- ति । * लुप्तनिर्दिष्टोत्र मत्वर्थप्रत्ययो द्रष्टव्यः । मन्योः मन्युमतः पुरुषस्य शत्रो: विमन्युकस्य परमार्थतो मन्युरहितस्य आपाततः क्रोधावि- ष्टस्य आत्मीयस्य च अयं प्रयोगो मन्युशमनः क्रोधनिवारणोपाय उच्यते विधानज्ञैरभिधीयते ॥ 1S' पदस्य. - ८३ 3 "समधा. .