पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ अथर्वसंहिताभाष्ये पञ्चमी ॥ अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति । “उ॒र्भः पृ॑थि॒व्या उत्थतो मन्युशम॑न॒ उच्यते ॥ २ ॥ अ॒यम् । यः । भूरि॑ऽमूलः । स॒मु॒द्रम् । अ॒व॒ऽतिष्ठ॑ति । द॒र्भः । पृ॒थि॒व्याः । उत्थतः । स॒न्युऽशम॑नः । उ॒च्यते ॥ २ ॥ 1 योयं पुरोवर्ती भूरिमूलः बहुभिर्मूलैरुपेतः [दर्भ:] समुद्रम् । समुद्रवन्त्य- स्माद् आप इति उदकभूयिष्ठो देश: समुद्रः । तम् अतिष्ठति अवक्रम्य स्थितो भवति । यद्वा समुद्रम इति अन्तरिक्षनाम । सैव व्युत्प- त्तिः । अन्तरिक्षम् आक्रम्य अवस्थित इत्यर्थ: । पृथिव्याः सका- शाद् उत्थितः उत्पन्न: स दर्भ: काशकुशाद्यात्मकः मन्युशमन उच्यते । क्रोधविनाशनस्य हेतुरभिधीयते इत्यर्थः ॥ षष्ठी ॥ विते॑ न॒व्या॑ श॒रणि॑ विते॒ मुख्य नयामसि । यथा॑व॒शो न वादिषो मम॑ चि॒त्तमुपाय॑सि ॥ ३ ॥ वि । ते । हुनव्याम् । श॒रणि॑म् । वि । ते॒ । मुख्या॑म् । न॑या॒ाम॒सि॒ । यथा॑ । अव॒शः । न । वादिषः । मम॑ । चि॒ित्तम् । उपऽआय॑सि ॥ ३ ॥ हे क्रोधाविष्ट पुरुष ते तव हनभ्याम् हनुसंबंन्धिनीं शरणिम् हिंसा- हेतुभूतां क्रोधाभिव्यञ्जिकां धमनिं वि नयामसि विनयामः । तथा ते त- व मुख्याम् मुखे भवां क्रोधवशोत्पन्नाम् अन्याम् अपि धमनिं विनया- मः क्रोधशमनेन अपगमयामः । उत्तरोर्धर्चा व्याख्यातः । हन- व्याम् इति । हनुशव्दात "शरीरावयवाञ्च' " इति यत् । ओर्गुणे वा- न्तो यि प्रत्यये ” इति अव् आदेश: 1 मुख्याम् इति । पूर्ववद् यत् ४ ॥ [ इति ] पञ्चमेनुवाके प्रथमं सूक्तम् ॥ 66 १ ABDKR SC मुख्यमया PPCr मुख्या॑न् । न॑या॒° V] मुख्या॑त् । न॒या॒° We with Sáyana.