पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये द्वितीया ॥ श॒तं या भैष॒जानि॑ ते स॒हस्रं संग॑तानि च । `लेष्ठ॑मास्रावभेषजं वसिष्ठं रोग॒नाश॑नम् ॥ २ ॥ श॒तम् । या । भेष॒जानि॑ि । ते । स॒हस्र॑म् । सम्ऽग॑तानि । च । श्रेष्ठ॑म् । आ॒स्राव॒ऽभेषजम् । वसिष्ठम् । रोग॒ऽनाशनम् ॥ २ ॥ हे व्याधित ते तव या यानि शतम् शतसंख्याकानि भेषजानि रोग- शमनहेतुभूतान्यौषधानि सन्ति तथा संगतानि संप्राप्तानि सहस्रम् सहस्र- संख्याकानि च औषधानि सन्ति तेषां मध्ये श्रेष्ठम प्रशस्ततमम् आत्रा- वभेषजम् रक्तस्रावस्य निवर्तकम् एतत् क्रियमाणं कर्म अत एव वसिष्ठम् वासयितृतमं रोगनाशनम् । X रोगो नश्यत्यनेनेति करणे ल्युट् ॥ तृतीया ॥ रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः 1 विषाणका नाम वा अ॑सि पितॄणां मूलादुत्थता वातीकृत॒नाशनी ॥ ३ ॥ रु॒द्रस्य॑ । मूत्र॑म् । अ॒सि॒ । अ॒मृत॑स्य । नाभि॑ः । वि॒ऽसा॒न॒का । नम॑ । वै । अ॒सि॒ । पि॒तृ॒णाम् । मूला॑त् । उत्थता । वा॒ती॒- कृत॒ऽनाशनी ॥ ३ ॥ . रुद्रस्य | रोदयति सर्वम् अन्नकाले इति रुद्रः जगत्संहर्ता ईश्वरः । हे गोशृङ्गोदक तस्य संहर्तुरीश्वरस्य मूत्रम् तदीयाल्लिङ्गद् विनिर्गतं ज- लम् असि । अतो रोगं संहरेत्यर्थः । तथा अमृतस्य अमरणस्य चि रकालजीवनस्य नाभिः बन्धकं स्थापकम् असि । * नहो भश्च [ उ॰ ४. १२५] इति इञ् प्रत्ययः । रसशास्त्रोक्तप्रकारेण ईश्वरवीर्यस्प रसस्य आसेवनेन हि सिद्धा अजरामरत्वं लभन्त इति तदभिप्रायेणोक्तं रुद्रस्य मूत्रम् असीति । हे गोशृङ्ग त्वं विषाणका [ नाम वै] विशेषेण रोगनिवर्तनस्य संभली एतत्संज्ञा खलु असि भवसि । पुनः सा वि- i शेष्यते । पितृणाम् पितृदेवतानां मूलात् उपादानकारणोद् उत्थिता उ