पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अ॒ग्निः । विश्वा॑नि । अप॑ । दु॒ऽकृ॒तानि॑ । अनु॑ष्टानि । आ॒रे । अ॒स्मत् । दु- । धातु ॥ २ ॥ tt [ अवशमा ] | किप् ॐ । ४ अवायुपपदात शसु हिंसायाम् इत्यस्मात् अवशसा अवशसनेन अवस्तात् हिंसनेन निःशसा निःशे- षेण नितरां वा हिंसनेन पराशसा पराशसनेन पराङ्मुखहिंसनेन च जा- ग्रतः जाग्रदवस्थापन्ना वयं यत् येन दुःस्वप्नेन उपारिम उपार्ता: पीडि ता भवेम । हु अर्तेश्छान्दसो लिट् | जागृ निद्राक्षये इत्यस्मात् लट: शत्रादेशः । “जक्षित्यादयः षट्” इति अभ्यस्तसंज्ञाविधानाद् "ना- भ्यस्ताच्छतुः” इति नुमप्रतिषेधः । तथा स्वपन्तः निद्रावस्थां प्रा- ता वयं यत् येन दुःस्वप्नदर्शनेन हेतुना अवशसनादिभिः पीडिताः ता- नि विश्वानि सर्वाणि अजुष्टानि अशोभनानि दुष्कृतानि दुःस्वप्ननिमि- तानि पापानि अग्निदेवः अस्मत् अस्मत्तः आरे दूरे अप दधातु अ पनिदधातु अपकृष्य स्थापयतु ॥ षष्ठी ॥ यदि॑िन्द्र ब्रह्मणस्प॒तेपि मृषा चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात् पा॒त्वंह॑सः ॥ ३ ॥ यत् । इन्द्र॒ । ब्रह्मणः । पते॒ । अपि॑ । मृषा॑ । चरा॑मसि । प्र॒ऽचे॑ताः । नः॒ । आ॒ङ्गि॑र॒सः । दुःऽइ॒तात् । पातु | अंह॑सः ॥ ३ ॥ हे ब्रह्मणस्पते मन्त्रस्याधिपते हे इन्द्र यत् येन दुःस्वप्ननिमित्तेन पा- पेन अपि मृषा चरामसि । १४ अपिशब्द: कस्यचित्पदस्यार्थे ग यां वा वर्तते । “अपिः पदार्थसंभावनान्ववसर्गगर्हासमुञ्चयेषु” इ- ति कर्मप्रवचनीयसंज्ञा । अपि बहुलं गर्हितं वा स्वप्ने मिथ्या चरा- “इदन्तो मसिः” । तस्माद् दुरिताद् दुःखप्रापकाद् अंहसः पापाद् आङ्गिरस: अङ्गिरसां मन्त्राणां संबन्धी प्रचेताः प्रकृष्टज्ञा- नोपेतः एतत्संज्ञो वरुणः नः अस्मान् पातु रक्षतु ॥ मः । 1 [ इति ] पञ्चभेनुवाके द्वितीयं सूक्तम् ॥