पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये निगृह्णातीति यमो वरुणः । स पिता जनयिता उत्पादयिता । हे स्वप्न त्वम् अररुर्नाम [अररुः ] आर्तिकरोसुरः । स एवासि भवसि । नाम- शब्द: श्रुत्यन्तरप्रसिद्धिं द्योतयति । श्रूयते हि तैत्तिरीयके । अररुर्वै नामासुर आसीत्" इति [तै० ब्रा० ३.२.९.४] ॥ द्वितीया ॥ वि॒द्म ते॑ स्वप्न ज॒नित्र॑ दे॒वजामीनां पुत्रोसि य॒मस्य॒ कर॑णः । अन्त॑कोस मृत्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑ह्म॒ स नः॑ः स्वप्न दु॒ष्वया॑त् पाहि ॥ २ ॥ वि॒द्म। ते॒। स्वप्न । ज॒नित्र॑म् | दे॒व॒ऽजा॒ामी॒नाम् । पु॒त्रः । अ॒सि॒ । य॒मस्य॑ । कर॑णः । अन्त॑कः । अ॒सि॒ । मृत्युः । अ॒भिः॒ । तम् । त्वा॒ । स्व॒प्त॒ । तथा॑ । सम् । वि॒द्म । सः । नः॒ः । स्व॒प्न | दुःऽस्वया॑त् । पाहि ॥ २ ॥ ९० 66 हे [ स्वप्न ] स्वप्नाभिमानिन देव ते तव जनित्रम् जन्म विद्म जानी- जने: औणादिक इत्रप्रत्ययः । उक्त एवार्थो विव्रियते । देवजामीनाम् देवस्त्रीणां वरुणानीप्रभृतीनां पुत्रः तनयः असि । ताभि- रुत्पाद्यमानत्वात् । देवस्त्रियो हि मायारूपाः पुरुषस्य शुभाशुभात्मकं भावि फलं सूचयितुं स्वप्नम् उत्पादयन्तीति प्रसिद्धिः | स्वप्नस्य शुभाशुभफलसू- चकत्वं श्रुतिदर्शयति । “यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । स- मृद्धिं तत्र जानीयात् ' इति । 'अथ स्वप्नाः । पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति" [ ऐ० आ० ३.२.४.] इत्यादि च । अतो यमस्य करण: । यमशब्दः प्राणापहरणलक्षणं तद्व्यापारं लक्ष्यति । तस्य कर्ता भवसि । अत एव अन्तकः अन्तकरः जीवनावसानस्य कर्ता असि भव- सि । मृत्युरसि प्राणत्यागस्य कारयिता भवसि । हे स्वप्न तं तादृशं [त्वा] त्वां तथा प्रागुतप्रकारेण सं विद्म सम्यग् जानीमंः । हे स्वप्न [ स त्वं] नः अस्मान् दुःस्वन्यात दुःस्वप्नजनिताद् भयात् पाहि रा ॥ 1S' 'र्णाम. The test in Salo 'णांम. 20/ जानीम. .