पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २. सू° ६.]४६४ एकादश् काण्डम् । सः भूतः । भव्यम् । भविष्यत् । पिता । पुत्रम् । प्र। विवेश । शचीभिः ९७ ॥ २० ॥ (१२) देवतासु देवेषु अन्तः मध्ये गर्भः सन् प्रणश्चरति । न केवलं मनुष्या दिष्वित्यर्थः । आभूतः आसमन्ताद् व्यानो भूतः नित्यः सन् स उ स एव प्राणः पुनर्जायते । तक्षच्छरीरेण सह पुनरुत्पद्यत इत्यर्थः । भूतः नित्यवर्तमानः स प्राणः भूतं भूतकालावच्छिन्नं वस्तु भविष्यत् भावि कालावच्छिन्नम् उत्पत्स्यमानं च वस्तु शचीभिः आत्मीयभिः शक्तिभिः स विवेश । पिता पुत्रम् । लुझोपमम् एतत् । यथा पिता स्वकीयं पुत्रं स्वावयवैरनुभविंशति तथेत्यर्थः । अथ वा प्राण एव हि सर्वस्य लोकस्य पिता जनकः । सोयं पुत्रम् खवस्माद् उत्पन्नं । पुत्रभूतं सर्वं जगत् सात्मकं कर्तुं प्रविवेशेत्यर्थः । [ इति ] पञ्चमं सूक्तम् ॥ “ एकं पादम्” इति सूक्तस्यापि पूर्ववद् विनियोगः ॥ तत्र प्रथम ॥ एकं पादं नोखिदति सलिलाउँस उच्चरन् । यङ्ग स तमुरिखदेनैवाद्य न श्वः स्या न रात्री नाहः स्यान्न व्युच्छेित् कदा चन ॥ २१ ॥ एकम् । पादम् । न । उत् । खिति । सलिलान् । हंसः । उत्ऽचरनं । यत् । अङ्ग। सः । तम् । उत्ऽरिखदेत्। न। एव। अद्य । न । श्वः। स्यात् । न । रात्रीं । न । अहैः । स्यात् । न । वि । उच्छेत् । तदा । चन ॥ २१ ॥ हन्ति गच्छतीति हंसः जगत्प्राणभूतः सूर्येः । स सलिलाद् उच्चरन उद्भच्छन । उद्यन्नित्यर्थः । एकं पादं नोखिदति नोद्धरति । एकं पादं निश्चलं स्थापयिया एकेनैव पादेन परिभ्रमतीत्यर्थः । तथा च संनत्रव १ A BD E K KRS v c; नाझी स्था’. We with Bg. २ F आसीत्. १३