पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २, सू° ६. ] ४८४ - एकादशं काण्डम्। त्र रथात्मना वर्णनीयस्य शरीररच चक्रतवेन रूप्यन्ते । अष्टौ चक्राणि यस्य तद् अष्टाची शरीरम् । ॐ ‘‘छन्दसि च’” इति अष्ठनो दीर्घः ॐ । ता दृक् शरीरम् एकनेमि एकेनैव प्राणेन नेमिनेव वेष्टितम् । लोके हि रथचक्रे नेमिवेष्टितमेव प्रवर्तते । अत्र तु चकाष्टकमपि एक एव प्राणात्मको नेमिः आवेद्य वर्तयतीत्यर्थः । सहस्राक्षरम् बहुभिरदैरुपेतम् । ॐ रो मावर्थीयः च । यह् भाणपरिस्पन्दवशेन सहस्त्रं बहुविधानि अक्षरा णि वर्णावतभकानि शब्दरूपाणि यस्य तत् तथोक्तम् । यद्वा । ' अ ओोतेः औणादिकः [ सप्रत्ययः ॐ । बहुविधव्याप्तिकम् इत्यर्थः । ए वरथात्मकं शरीरं पुरः पुरस्तात् पूर्वस्मिन् भागे न वर्तते पश्चात् अपर भागे नि वर्तते । इत्थंमहानुभावः प्राणः प्राणिशरीरं प्रविश्य तत्र [ प्र वृतिनिवृत्ती जनयतीत्यर्थः । शरीरस्य रथवेन रूपणम् अन्यत्रापि आ Tतम् । आत्मानं रथिनं विद्धि शरीरं रथमेव तु [क°६°३. ३] इत्यादिना । स प्राणः सूत्रात्मभावेन स्थितः अर्धेन स्वात्मनोंशेन एकेन विश्वम सवै भुवनम् भूतजातं जजान प्राणवायवात्मना प्रविश्य जनयामा स । अस्य । सूत्रात्मनः प्राणस्य यद् अन्यद् अर्धम् प्राणरूपेणावस्थिता अपरो भागः तस्यापरिच्छिन्नस्य केतुः कतमः कीदृशः । परब्रह्मात्मकस्य प्राणस्य एकदेश एव कृत्स्नं जगद् वर्तते । अवशि स्वरूपम् आनन्याद् इदम् ईदृ इति निर्धारयितुम् अशक्यम् इत्यर्थः । श्रूयते हि । ‘‘पादो स्य विश्व भूतानि त्रिपाद् अस्यामृतं दिवि’’ इति [ऋ० १०, ९०.३] स्मृतिश्च भवति । विष्टभ्यहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् । इति [भ° गी° १०.४२]॥ मृतया । यो अस्य विश्वजनमन ईशे विश्वस्य चेष्टतः । अन्येषु क्षिप्रक्षुन्ने ती माण नमोस्तु ते ॥ २३ ॥ यः । अस्य । विश्वऽर्जन्मनः । ईशे’। विश्वस्य । चेष्टतः । अन्येषु । क्षिपऽधुन्वने । तस्मै । मुणं । नमः । अस्तु । ते ॥ २३ ॥ ९९