पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसम्हिताभाष्ये

इत्यर्थः । ते एव व्यस्तम् निर्दिशति पृथिवीम् दिवम् चेति । तम् ध्वावापृथिव्योरुत्पादकम् आचार्य ब्रह्मचारी आत्मीयेन तपसा ब्रह्मचर्यनियमेन रक्षति पालयति । तस्मिम्स्तथाविधे ब्रह्मचारिणि सर्वे देवाः सम्मनसः समानमनस्काः भवन्ति ॥

                                  नवमी ॥

इमाम् भूमिम् पृथिवीम् ब्रह्मचारी भिक्षामा जम्भार प्रथमो दिवै च । ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥

इमाम् परिदृश्यमानाम् पृथिवीम् प्रथिताम् विस्तीर्णो भूमिम् ब्रह्मचारी प्रथमः प्रथमभावी सन् भिक्षाम् आ जभार भिक्षात्वेन । अनन्तरम् दिवम् श्लोकम् च द्वितीयाम् भिक्षाम् आजहार । "हग्रहोर्भः" इति भावम् । ते ध्वावापृथिव्यो भिक्षणेन लब्धे समिधौ कृत्वा उपास्ते अग्निम् परिचरति । समिन्धनसाधनयोस्तयोर्ध्वावापृथिव्योः विश्र्वा विश्र्वानि सर्वाणि भुवनानि भूतजातानि आर्पिता अर्पितानि स्थापितनि ।आश्रित्य वर्तन्त इत्यर्थः ।

                                  दशमि ॥

अर्वागन्यः परो अन्यो दिवस्पृष्टाद् गुहा निधी निहितौ ब्राह्मणस्य । तौ रक्षति तपसा ब्रह्मचारी तत् केवलम् कृणुते ब्रह्म विद्वान् ॥