पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३ . सू९७] ४६५ एकादशं काण्डम् । एतत् सर्वापरोक्षे परब्रल देवानां परिपृक्तम् परिगृहीतम् । आत्मतया साक्षात्कृतम् इत्यर्थः ।.[रोचमानम् ] स्वप्रकाशचिहूपतया दीप्यमानम् अ नभ्यारूढम् अन्यैरनाक्रान्तं सर्वाकर्षेण चरति वर्तते । तस्मात् सकाशाद् ब्राह्मणम् ब्रह्मणः संबन्धि ब्राह्मणस्य वा असाधारणं स्वं ज्येष्ठम् प्रवृत्तमं प्रशस्यतमं वा ब्रह्म वेदात्मकं जातम् प्रादुर्भूतम् । ‘‘ अस्य महतो भूतस्ये निश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदथर्ववेदः” इति शुश्रु तेः [ वृ° आ° २. ४. १०]। देवाः प्रतिपाद्य अश्यादयश्च सर्वे अमृतेन स्वोपभोग्येन अमृतत्वमापकेन सुधारसेन साकम् सह जाता इत्यर्थः । चतुर्थी । ब्रह्मचरी ब्रज भ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समताः। प्राणापानौ जुनन्दाद् व्य्नं वाचं मनो हृदयं ब्रह्म सेधास् ॥ २४ ॥ ब्रह्मऽचारी । बलं । भ्राजेत् । बिभर्ति । तस्मिन् । दैवः । अधि । विश्वे । सम्ऽऔतः । प्राणापानौ । जुनयन् । आत् । विऽआनम् । वाचम् । मनः । हृदयम् । ब्रह्म । मेधाम् ॥ २४ ॥ ब्रह्मचारी ब्रह्मचर्यवान् पुरुषो भ्राजत् दीप्यमानं ब्रह्म वेदात्मकं बिभर्ति । धारयति । तस्मिन् अधि उपरिं विश्वे सर्वे देवाः समोतोः संबद्धाः । “यावतींचें देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति ?” इति श्रुतेः [तै० आ°२.१५]। स च सर्वेषां देवानां निवासभूतो ब्रहचारी प्राणापानौ सर्वपाणिसंबन्धिनौ जनयन् उत्पादयन् वर्तते । आत् अनन्तरं व्यन्नम् । ‘‘ अथ यः प्राणापानयोः संधिः स व्यानः” इति [ छ° १३.३] झु त्यन्तरप्रसिद्धं व्यानाख्यं वायुमम् वाचम् वागिन्द्रियं परापश्यन्यदिरूपां बा शब्दात्मिकां नाचम् . मनः सर्वेन्द्रियानुग्राहकम् अन्तःकरण दम् त दावासस्थानभूतं हृदयकमलम ब्रह्म वेदात्मकम् मेधाम् आशुविद्यग्रहण कुशलां बुद्धिम् एतत् सर्वं ब्रह्मचारी जनयन् वर्तते ॥ चक्षुः श्रोत्रं यश अस्मासु धेह्यन्नं रेतो लोहितमुदम् ॥ २५ ॥ ११७