पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ५३ सू° € •] ४६६ एकादशं काण्डम् । यूप्रतिषिद्मानितैषज्यानाम् अंहोलिङ्गभिः” [को. ४. ४ ] इत्यादिषु स धेरैषज्यादिकर्मसु गणयुक्तो विनियोगोनुसंधेयः ॥ तथा ‘‘ हस्तिरथदानानुक्रमं वक्ष्ये” इति प्रक्रम्य उक्तं परिशिष्टे । तस्मात् सर्वेषु दानेष्वनुक्तविधिकेषु च । असिं ब्रूम इति सूक्तेनाज्यतन्त्रेण होमयेत् । इति [ प° १४.१]॥ ११९ तत्र प्रथमा । अ िब्रूमो वनस्पतीनोषधीरुत वीरुधः। इन्द्रं वृहुस्सतिं सूर्यं ते नो मुञ्चनवंहसः ॥ १ ॥ अग्निम् । ब्रूमः । वनस्पतीन् । ओषधीः। उत । वीरुधः । इन्द्रम् । बृहस्पतिंम् । सूर्यस् । ते । नः । मुञ्जन्तु । हंसः ॥ १ ॥ अग्निः अग्रणीः सर्वेषां देवानाम् आदिभूतो देवः । ‘‘अग्निरग्ने प्र थभो देवतानाम्” इति [तै° ब्रा°२. ४.३०३] श्रुतेः । तादृशम् असिँ ब्रूमः स्तुमः । यद्वा इष्टफलं याचामहे । तथा वनस्पतीन् पृथिव्यधिदै वतेन तेनाग्निना संवर्धितान् महावृक्षान् ओषधीः त्रीहियवाद्यः [धत अपि च ] वरुधः आरण्या लतारूपाः ताः सर्वा नूमः स्तुमः । तथा इन्द्रम् द्युलोकाधिपतिं बृहस्पतिम् बृहतां देवानां पतिं सूर्यम् सर्वस्य प्रे रकम् आदित्यं च ब्रूमः स्तुमः । ते सर्वे नः अस्मान् अंहसः पापात् मुञ्चन्तु ॥ द्वितीया । जूमो राजांनं वर्तणं मित्रं विष्णुमथो भर्गम् । अंशं विवस्वन्तं बूमस्ते नों मञ्चनवंहसः ॥ २ ॥ धूमः। राजानम् । वर्हणम् । मित्रम् । विष्णुम् । अथो इति । भगम् । अंशम् । विवंस्खन्नम् । ब्रुमः। ते । नः । मुञ्चन्तु । अंहसः ॥ २ ॥ अत्र वरुणादयः सूर्यमूर्तयः स्तूयन्ते । राजानम् राजमानम् ईशितारं 1 S वियुक्त° forअनुक्त° which we with the fo78 ' &y¢¢ .