पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू° ९.] ४४७ एकादशं कार्डम । १३३ हंहणेन स्थिरीकृतो लोकः । न्यः नेतारस्तत्रत्याः प्राणिनः । ब्रह्म परिवृढं जगत्कारणम् अव्यक्तात्मकम् । विश्वजः विश्वस्य स्रष्टारो नव ब्रह्मणः तत्स्रष्टा [ दशमः एवं] दशसंख्याकाः । यद्वा नव प्राणाः मुख्यः प्राण एकः । एते हि प्रथमसृष्टा विश्वस्य स्रष्टार । एते सर्वे उच्छिष्टे स माहिताः । अपि च देवताः इन्द्राद्याः सर्वे देवा नाभिमिव चकम् यथा रथचके मध्यपं नाभिं सर्वत आवेश्य वर्तते एवम् उच्छिष्टं श्रिताः आश्रिताः । कारणभूतं ब्रह्म आवेष्ट्य वर्तन्त इत्यर्थः । पञ्चमी । ऋक् साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् । हिङ्कार उच्छिष्टे स्वरः साम्नों मेडिञ्च तन्मयेि ॥ ५ ॥ ऋक् । सार्म । यर्थः । उत्ऽशिष्टे । उत्ऽणीयः । प्रऽस्तृतम् । स्तुतम् । हिङऽकारः। उत्ऽशैिठे। स्वरः। साम्नः। मेडिः। च । तत् । मथिं ॥ ५॥ अनयतरया च यज्ञाङ्गानां तदाश्रितात्वं प्रतिपाद्यते ऋक् साम य जुरिति । सर्वत्र जातावेकवचनम् । ऋचः पादबड़ा मनन यज्ञे याज्या नुवाक्यादिरूपेण विनियुक्ताः । सामानि प्रगीतमन्त्राः ‘अयः स्तुवते पृथैः स्तुवते ” इत्येवं स्तोत्रसाधनात्वेन विनियुक्ताः । यचूंषि प्रविष्टप ठित्ता अनुष्ठेयार्थप्रकाशका सन्तः । तेषां लक्षणं जैमिनिराचार्योऽसूत्रयत । ‘‘तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था » [ जै०२, १.३५] << गीतिषु सामाख्या” [जै०२,१.३६] “शेषे यजुःशब्दः” [जै०२. १. ३७] इति । एवं त्रिविधा मन्त उच्छिष्टं उच्छिष्यमाणे ब्रह्मणि समाश्रिताः । तत्र आ. ज्यादिस्तोत्रनिर्वर्तकानां साम्नां पञ्च भक्तयः हिङ्कारप्रस्तावोनीथप्रतिहार निधनाख्याः प्रयोगशास्त्रेण कल्पिताः । तत्र च उदात्रा गीयमानो भाग उन्नीथः । प्रस्ङतम् मस्त गीयमानः प्रस्तावाख्यो भागः। प्रस्तूयते स्तु जेः प्रारम्भः क्रियते अनेनेति प्रस्तुतम् । क्षु पूर्वां स्तौतेः करणे नेष्ठा ५ ९ स्तुतम् स्तोत्रं स्तवनकर्म । हिङ्करः सर्वैरुङ्गातृभिः आदौ १ ४ मीडि. २ P हिगू’. We । with । >y Cr. ११ ८८