पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. भु° ९•] ४४७ एकादश् कण्डम् ! १३७ दति एषु बहवो यजमानाः कर्तृवेनेति बहुकर्तृकाः सोमयागाः सत्राणि उच्यन्ते । भूयते हि । चतुर्विंशतिपरमाः सप्तदशवराः सत्रम् आसी रन’ इति । तानि च त्रयोदशरात्रमभृतीनि विश्वसृजाम् अयनान्तानि । न स्खल्विदानींतनानाम् अल्पमतीनाम् अल्पायुषां तदनुष्ठानं संभवतीति तेषाम् उत्सन्नयज्ञवम् । एवम् अनुकान्ता अश्यधेयादयः सर्वे यागा उच्छिष्टे ब्रह्मणि अधि समाहिताः समाश्रिताः ॥ नवमी । अग्निहोत्रं च श्रद्धा च वषट्सारो मतं तपः। दक्षिणेष्टं पूतं चोच्छिष्टेधिं समrfarतः ॥ ९ ॥ अनिऽहोत्रम् । च । श्रद्धा । च । वषट्कारः । चतम् । तपः। दक्षिणा। इष्टम् । पूर्तम् । च । उत्ऽशिंष्टे । अधि। सम्ऽआहिताः ॥ ९॥ अग्नये हो। होमः अस्मिन् कर्मणि इति अग्निहोत्रम् ‘* सायं प्रातर ग्निहोत्रं जुहुयात्’ इति [आय° ६. १५.१४] विहितम् । श्रद्धा श्रद्धानं तदनुष्ठानविषया आस्तिक्यबुद्धिः । 3‘‘ श्रदन्तरोरुपसर्गवद् धृतिरिष्य ते” इति वचनात् ‘‘आतश्चोपसर्गे ” इति अङ । परस्परसमुच्चयाय चकारौ 8 । वषङ्कारः याज्यान्ते हविःप्रदानाय प्रयुज्यमानो वौषट् इति शब्दः । व्रतम् । ‘‘नानृतं वदेत् । नास्थ ब्राह्मणोभावान् गृहे व सेत् ’’ [ तै' ब्रा° १. १. ४. २] इत्यादिशास्त्रविहितम् आहिताग्नेः प्रति स्विकम् अनृतवदनवर्जनादिरूपं कर्म अहिंसा सत्यम् अस्तेयं शुचम् इन्द्रियनिग्रहः । इत्येवमादिरूपं वज्र्यसाधारणं च व्रतशब्देन विवक्षितम् । तपः शरीरसंता प्रकरं कृच्छूचान्द्रायणादिकम् । यथा “पय ब्राह्मणस्य मतम् यवागू राज न्यस्य आमिया वैश्यस्य ’” इति [तै९ आ° २. ४. १] दीक्षादिवसेषु दे त्रार्थं विfर्हतं पयःपानादिकं व्रतम् । तपो ब्लचर्यं चित्तैकाय्यं वा । मनसश्रेन्द्रियाणां चैकायं तप उच्यते । ते स्मरणात् । दक्षिण ‘‘ तस्य द्वादशशतं दक्षिणा’ इत्यादिशास्त्रे 5A १८