पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ५२ व्यानोदानौ वा मनस्ते वा आकृतिमावहन ॥ ४ ॥ प्राणापानौ । चक्षुः । श्रोत्रम् । अक्षितिः । च । क्षितिः । च। या । व्यानऽउदुमौ । वाक्। मन:। ते। वै।आऽकृतिम् । आ। अबहून् ॥ ४॥ हृदम्बुजमध्ये अवस्थितस्य क्रियशतयात्मकस्य मुख्यमाणस्य प्राणापाना द्य [ वृत्तयः । चक्षुः दर्शनसाधनम्] इन्द्रियम् । श्रोत्रम् शब्दग्रहणसा धनम् 'इन्द्रियम् । अक्षितिः अक्षीयमाणा ज्ञानशक्तिः । क्षितिः क्षीयमाणा निवासहेतुभूता वा क्रियाशक्तिः । ज्ञानशक्तिर्हि आत्मस्वरूपत्वेन नियत्वाद् न कदाचित् दीयते । क्रियाशक्तिस्तु अपवर्गसमये लिङ्गशरीरेण सह नि वर्तत इति क्षितिशब्दाभिधेया परभरसमुच्चयार्थं चकारौ ४ । एवंविधा द्विविधा शक्तिः । । व्यानोदानौ अन्नरसं सर्वासु नाडीषु विविधम् अनिति प्रेरयतीति व्यानः । उत् ऊर्ध्वम् अनिति उ हारादिव्यापारं करोतीति उदानः । एते माणस्य वे वृत्ती । वाक् वंद नसाधनम् इन्द्रियम् । मनः सर्वेन्द्रियानुग्राहकं सुखदिज्ञानसधनम् न्तःकरणम् । त एते प्राणापानादयो दश देवाः आकूतिम् पुरुषकृतं सं कल्पम् आवहन आभिमुख्येन प्रापयन्ति । पुरुषस्य अभिमतम् अथे नि प्यादयन्तीत्यर्थः । पञ्चमी । अंजात आसन्नतवोथो धाता बृहस्पतिः । इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपसत ॥ ५ ॥ अर्जाताः । आसन् । ऋतवः। अथो इतेिं । धाता । बृहस्पतिः । इन्द्राग्नी इतेि । अश्विन। तहैि । कम्। ते । ज्येष्ठम् । उपं । आसत ॥ ५ ॥ ऋतवः वसन्तायाः कालविशेषास्तस्मिन् सृष्टिसमये अजाताः आसन् अनुत्पन्ना अभवन् । अथो अपि च धाता एतत्संज्ञकः अदितेः पुत्रः । बृहस्पतिः बृहतां देवानां पतिः सुरगुरुः । इन्द्राग्नी । -अश्विना अश्विनौ २ B आजता. We wit A B C D E E K R S v CD २ है . We with AC. 1 S in to विविधं after अक्षरसं. S अविन° for वदन° -- /* .,