पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१.सू०१.] ४७२ एकाडदशं काणहम् । ११

वृणीषे प्रार्थयसे ते तव ता प्राग् उदीरिता वरयितव्या: समृड्डीः इह् अस्मिन् य राधयामि संसाधयामि। राध साध संसिद्वौ ॥

                [इति] एकाशे काण्डे प्रथमं सूक्तम ॥

" इयं ते धीतिः" इति सुक्तस्य ब्रहौदनसवे धूर्वसूक्तेन सह उक्तो विनियोगः। तत्र "इयं ते धीति:" इति प्रथमाया ॠचः पूर्वार्धचेंन प‌रापवनांर्थ शूंर्प गृहीयात्। "परा पुनीहि" इति उसरार्धचेंन तुपान् उदूहेत्। सूत्रितं हि। "इयं ते धीतिः [११] वर्षवृध् [१२‌.३.३९]"इति शूंर्प गृहाति। "ऊर्ध्वं प्रजाग् [९] विग्वव्यचाः [१२.३.१९] इ "त्युदूहति । परा पुनीहि [११] इति तुपम्" इति [कौ० ८.२] ॥ "उपश्र्वसे" [१२] इति कचा तुषेम्यरण्डुलान् [पृथक्] कुर्यात् । उपश्र्वसे इत्वपवेवेक्ति" इति हि [कौ० ८.२] सूत्रम् ॥ "परेहि नारि" [१३] इति ॠचा उदकम् आहरन्तीं पत्नीं संप्रेषमेत्। "एगा अगुः" [१४] इति ॠचः प्रथमपादेन आमच्द्दन्तीं पत्नीम् अनुमनवधते। "उतिध नारि" इति पादहयेन पानीम् आहयेत्। "आ त्वागन् यज्ञ" इति पादैकदेशेन जलकुम्मदात्री पली कर्तारं प्रेधयेत्। "प्रति कुम्भं गृभाय" इति अर्धपादेन पत्नी जलकुम्भं ग्राहयेत् कर्तारम्। तवैव कर्मणि "ऊर्जो भागः [१५] इति पृचः मयमप्रादेन जलकुम्भं भूनौ निदध्यात्। "चषिमशिष्ठ" इति पादत्रपेण उदपात्रम् आस्तीर्णचर्मणि निदध्यात्। सूत्रितं हि। "परेहि नारीत्युदहतं नप्रेप्यति अप अपगताम् अलंकृताम्। "एमा अगुरित्यायतीम् अनुमत्त्त्तयते। उत्तिष्ठ नारीति पत्नीं संप्रेप्य "ति। प्रति कुम्भं गृभायेति प्रतिगृहाति। उर्जो भाग इति निद "धाति" इति "ॠषिप्रशिष्टा [१५] इत्युदपात्रं चर्मणि निदधाति" इति च [कौ० ८.२]॥ पैतभेधिके चयनारव्ये कर्राणि "ऊर्जो भाग" इति ऋचा अस्थीनि अरमभिः इष्टकाभिर्वा आच्द्दादयेमत् ॥