पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ अथर्वसंहिताभाष्ये च्छागोचराः शब्दस्सर्शादिविषयाः । तृतानि नर्तनानि भरतशास्त्रोक्तानि । एते आनन्दादयः सर्वे पुरुषस्य शरीरम् अनु प्रविशन् ॥ पञ्चमी । आलापाश्च प्रलापाश्चभीलापलपेश्च ये । शरीरं सर्वे प्राविंशन्नयुञ्जः प्रयुजो युजैः ॥ २५ ॥ आऽलापाः । च । प्रलापः । च । अभिलापडलः। च। ये । शरीरम् । संवें । प्र । अविशनं । आऽयुद्धेः। प्रऽयुजः । युञ्जः ॥ २५ ॥ आलापः आभाषणानि सार्थकानि वचनानि । प्रलापाः निरर्थका नि वचनानि । ४ लप व्यक्तायां वाचि । भावे घञ् ४ । ” च अभीलापलपः अभिलापः उक्तविधः शब्दः तेन लपन्तिं ब्रुवन्तीति अभीलापलपः शब्दस्य उच्चारयितारः । ५. << किप् च’” इति लपेः किप् ४ । ते - सर्षे आलापादयः पुरुषशरीरं प्राविशन् । आयुजः आयोजनानि प्रयुजः प्रयोजनानि युजः योजनानि । 8 सर्वत्र सं पदादिलक्षण भावे विप् । उपसर्गवशाद् अमीषाम् अर्थभेदोऽवगन्त व्यः 8 । एवम् आयोजनादिक्रियाः शरीरम् अनु प्राविशन् ॥ षष्ठी । प्राणपानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिंश्च या । व्यानोदानौ वाआनः शरीरेण त ईयते ॥ २६ ॥ प्राणापानौ । चक्षुः । श्रोत्रं । अक्षितिः। च। क्षितिंः । च । या । व्यनऽउदुन । वाक् । मनः । शरीरेण । ते । `ईयन्ते ॥ २६ ॥ त्रयः पादः पूर्ववद[११९२५] व्याख्येयाः । ते प्राणापानादयः सर्वे शरीरम् अनुप्रविश्य तेन सह ईयन्ते स्वस्वव्यापारेषु प्रवर्तन्ते । ४ ईड् गतौ । दियादित्वा श्यन प्रत्ययः ॐ ॥

2 अतिान्।. We wit! P = C .

1 S’ नि for वचनानि ५ लयं-धेतीति.४ S स्वस्य to स्वस्व°. क