पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ० ० अथर्वसंहिताभाष्ये ध्यमानम् । ५ व्यध ताडने इयनात् मर्मशब्दोपपदात् संपदादिल . क्षणः कर्मणि किप् । ‘ग्रहिज्या° » इत्यादिना संप्रसारणम् । ‘‘ नहि वृतिवृषिव्यधिरुचिसहितनि 1षु क्’’ इति पूर्वपदस्य दीर्घः ॐ । मर्म व्यधनादेव रोरुवतम् अत्यर्थं क्रोशन्तं दुश्चित्तम् दुःखैः पूरितं मृदितम् चूर्णीकृतम् अत एव भूमौ शयानम् एवंभूतं शत्रुम् अदन्तु श्वसृगालादयो भक्षयन्तु । यः अमित्रः शत्रुः नः अस्माकं संबन्धिनीम् इमां पृषदाज्ये न हूयमानाम् आहुतिं प्रतीचीम् प्रतिमुखम् अवन्तीं मतिनिवृतगतिं कर्तुं युयुत्सति योळुम् इच्छति । तम् एवंभूतं भक्षयन्तु इति पूर्वत्र संबन्धः ॥ सप्तमी ॥ यां वा अनुतिष्ठन्ति यस्या नास्ति विराधनम् तथेन्द्रों हन्तु वृत्रहा वर्गेण त्रिषेधिना ॥ २७ ॥ (३० ) याम् । देवाः । अनुऽतिष्ठन्ति । यस्यः। न। अस्ति । विऽराधनम् । तय । इन्द्रः। हन्तु । वृत्रऽहा । वज़ेण । त्रिऽसंधिना ॥ २७ ॥ यां पृषदाज्याहुतिं देवा अनुतिष्ठन्ति वजोत्पादनाय आचरन्ति । यस्या आहुत्तेर्विराधनम् विराढिमधवीर्यता नास्ति । अप्रतिहता शक्तिर्विद्यत इ न्यर्थः । तथा आहुन्या उत्पादितेन त्रिसंधिना संधित्रयोपेतेन वर्गेण तृ त्रहा वृत्रासुरं हतवान् इन्द्रः हन्तु अस्मदीयान् शत्रुन हिनस्तु । ‘‘सर्वा लोकान्समजयन् देवा आहुत्यानया * [१२] इत्यनया ऋचा पृषदाज्या हुनेर्वेज़रूषता प्रागेवोक्ता । पञ्चमेनुवाके षष्ठं सुतम् ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थाश्चतुरो देया विद्यतीर्थेमहेश्वरः ॥ १ ॥ श्रीभद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहरमहाराजसाम्राज्यधुरंधरेण सायणार्येण विरचिते अथर्वसंहिताभाष्ये - एकादशकाण्डः समाप्तः । 1 S' वा fo' त्रा , ¢ S 11. इतेर्वअरू. ४ Sॐ धंदा for देयात्. कसकर -- - - प ।