पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ १। सू। १]४७९ एकादशं काण्डम्। दीयेषु पितृपितामहादिषु विषये यः प्रसिद्धस्तैरभिलषितः स्वर्गः पुण्यलोकः तस्य पन्थाम् पन्थानं कृण्के करोमि॥

                      नवमी॥

अग्नौ तुषाना वप जातवेदसि परः कम्बूकां अप मृद्धि दूरम्। एतं शुश्रुम गृहराजस्य भागमथो विद्म निश्रुतेर्भागयेयम्॥२९॥ अग्नौ। तुषान्। आ। वप। जातवेदसि। परः। कम्बूकान्। अप। मृड्ढि। दूरम्। एतम् । शुश्रूम। गृहsराजस्य। भागम्। अथो इति। विद्म। निःsसृतेः। भागsधेयम्॥२९॥ हे ऋत्विक् जातवेदसि जातानामं वेदितरि अग्नौ तुषान् ब्रह्मौदनार्थतण्दडुलेभ्यः पृथक्कृतान् आ वप प्रक्षिप। तेषाम् अग्नौ प्रक्षेपः प्रतिपत्तिरित्यर्थः॥। तथा कम्बूकाम् फलीकरणान् परः परस्ताद् दूरम् अप मृड्ढि पादेन अपमार्जनं कुरु। गृहराजस्य गृहाणाम् अधिपतेर्वास्तुनाथस्य। "राजाहःसखिभ्यः" इति टच। एतं कम्बूकाख्य भागं शुश्रुम अभिज्ञेभ्यो वयं श्रुतवन्तः। अथो अपि च निश्रुतेः पापदेवताया भागधेयम् हविर्भागम् एतं विद्म जानीमः। "विदो लटो वा" इति मसो मादेशः। भागशब्दात् स्वार्थे धेयप्रत्ययः॥

                   दशमी॥

श्राम्यतः पचतो विद्वि सुन्वतः पन्थां स्वर्गमधि रोहयैनम्। येन रोहात परमापद्य यद् वय उत्तमं नाकं परमं व्योम॥३०॥ श्राम्यतः । पचतः। विद्वि। सुन्वतः। पन्थाम्। स्वःsगम्। अधि। रोहय। एनम्। येन। रोहात्। परम्। आsपद्य। यत्। वयः। उत्sतमम्। नाकम्। परमम्। विsओम॥३०॥