पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथार्वसहिताभाष्ये

                                 द्वितीया॥

बभ्रे रक्षः समदसा वपैभ्योब्राह्मणा यतमे त्वोपसीदन्। पुरीषिणः प्रथेमनाः पुरसतादर्षेयस्ते मा रिषन् प्राशितारः ॥३२॥ बभ्रे रक्षः। समदम्। आ। वप। एभ्यः। अब्राह्मणाः। यतमे। त्वा। उपसीदान्। पुरीषिणः। प्रथमानाः। पुरस्नात्। आर्षेयाः। ते। मा। रिषन्। प्राशितारः ॥३२॥ हे वभ्रे भरनशिल ब्रह्मौदन अब्रह्मणाः ब्रह्मणव्यतिरिक्ताः क्षत्रियाद्या यतमे ये त्वा त्वाम् उपसीदान् उपसीदेयु:प्राशनार्थम् उपसन्ना भवेयुः । "वा बहूना जातिपरिप्रश्ने" इति यच्छन्दान डतमच्। तदनास्य सर्वनामसाङ्ययाम् जसः शीभावः। एभ्यः ब्रह्मणव्यतिरिक्तेभ्यः रक्षः समदम् रक्षोजात्या सह मदनम्। यद्वा समान माद्यन्ति अस्मिन्निति समत् सम्ग्रामः राक्षसैः कलहम् आ वप् प्रक्षिपः राक्षसकृताम् पीडाम् प्रापयेत्यर्थः। ये तु पुरस्ताद् उक्ता आर्षेयाः ऋषिहगोत्रप्रवरभिग्न्याः पुरीषिणः पृणाति पूरयतीति वा पुरीषम् प्रजापश्वादिकम्। श्रूयते हि। "प्रजा वै पशवः पुरीषाम्। प्रजघैवैनम् पषुभिः पुरीषवन्तम् करोति" इति। यास्कस्तु पुरीषशब्दम् निरवोचत्। पुरीषम् पृणातेः पूरयतेर्वेति। तद् एषाम् अस्तीति पुरीषिणः। अत एव प्रथमानाः लोके पुत्रपौत्रादिसमृद्वया विस्तीयमाणास्ते भृग्वङ्गीरोविदो ब्रह्मणाः हे ओदन तव प्राशितारः भोक्तारः मा रिषन् हिम्साम् मा प्राप्नुवन्तु। रिष हिम्सायाम्। समृद्धा भवन्तु इत्यर्थः॥

                                  तृतीया॥ 

आर्षेयेषु नि दध ओटन त्वा नानार्षेयाणामप्यस्त्यत्र। अग्निर्मे गोप्ता मरुतश्व सर्वे विश्वे देवा अभि रक्षन्तु पषुम्॥३३॥