अथर्वसंहिताभाष्ये
अङ्गेभ्यः। ते। उदराय। जिह्वायै। आस्याय। ते। दत्त अभ्यः। गन्धाय। ते। नमः॥ ६॥
हे पशुपते ते तव संबन्धिभ्यः अङ्गेभ्यः हस्तपादादिभ्यो नमोस्तु। सामान्यो प्रधान्यख्यापनाय विशेषतो निर्दिशति। ते तव लीलाविग्रहधारिणः संबन्धिने उदराय निह्वायै रसनायै[आस्याय] आस्याख्यकुहरय दभ्द्यः दन्तेभ्यः गन्धाय गन्धग्राहकेन्द्रियाय घ्राणाय ते त्वत्संबन्धिने नमः। दभ्द्य इति। "पहन्" इत्यादिना दन्तशब्दस्य दभ्वः॥
सप्तमी॥ अस्त्रा नीलशिखण्डेन सहस्त्राक्षेण वाजिना। रुद्रेणार्धकघातिना तेन मा समरामहि॥ ७ ॥ अस्त्रा। नील: अशिखण्डेन। सहस्त्र: अक्षेण। वाजिना। रुद्रेण। अर्धकः आघातिना। तेन। मा। सम्। आरामहि॥ ७ ॥
अस्त्रा क्षेप्त्रा नीलसिखण्डेन नीलवर्णकेशसंनिवेशविशेषयुत्त्केन सहस्त्राक्षेण सहस्त्रसंख्याकचक्षुरिन्द्रिययुत्त्केन वाजिना वेगवता अर्धकघातिना सेनाया अर्ध हन्तुं शीलम् अस्य। "सुप्यजातौ णिनिस्ताच्छील्ये" इति हन्तेर्णिनिपत्ययः। "हनस्तोचिण्णलोः" इति तत्वम्। "हो हन्तेर्ञिणिन्नेषु" इति घत्वम्। एवंगुणविशिष्टेन तेन प्रसिड्वेन रुद्रेण मा सम् अरामहि मा संगच्छामहै। आर्ता मा भूमेत्यर्थ:। ॠ गतौ। अस्भाद भाङि लुङि "समो गम्यृच्छि" इति आत्मनेपदम्। "सर्तिशास्त्यर्तिम्यश्र्व" इति च्लेः आङ् आदेशः॥
अष्टमी॥ स नो भवः परि वृगत्त्कु विश्र्वत आप इवाग्निः परि वृणत्त्कु नो भवः। मा नोमि मास्त नमो अस्त्वस्मै॥ ८ ॥