पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिशुमारो: अजगरा: पुरिकयो जंल मत्स्यो रजसा येभ्यो अस्येसि। न र्ते दूर्ं न परिष्ठास्ति ते भव सद्य: सर्वान् पर्रि पश्यसि भूमिं पूर्वस्माज्ञंस्युत्तेरस्मिन् समुद्रे॥ २५ ॥

शिशुमारो: अजगरा: पुरीकंयो: जर्षा: मत्स्यो: रजसा: येभ्ये: अस्येसि।

न तु दुरम् न परीस्था अस्ति। ते भव सद्य: सर्वान् परि पश्यसि। भुमिम् पुर्वस्मात् हंसि उत्तरस्मिन् समुद्रे।

आरण्यपशुवज्जलचरप्राणिनामपि रुद्रभागत्वम् उच्यते। शिशुमारा: नऋविशेषा:। अजगरा: सर्पविशेपा:। पुंलीकयाद्या जलचरा: प्राणिविशेषा:। हे रुद्र त्वदर्थम् एते सर्वे जलचरा: प्राणिन इत्यर्थ:। रजसां आत्मीयेन तेजसा येभ्य: जलचरप्राणिभ्य: अस्यपि आयुधं क्षिपसि। हे भव ते तव सर्वगतस्य दूरम् विप्रकृष्टं नैवासीत्। [ते] परिष्ठा परिहस्त्य स्थिता प्रजापि न विद्यते। यतस्त्वं सर्वाम् कृत्स्त्रां भुमिं सद्य: क्षणादेव परि पश्यसि परित: अवलांकयसि। तथा पूर्वम्मात् पुरोवर्तिन: समुद्रात् उत्तरस्मिन् उत्तरदिग्वर्तिनि समुद्रे जलधौ हंसि क्षणादेव गच्छसि। ह्न्तिरत्र गत्यर्थ:। अत: सर्वगतस्य तव विप्रकुष्टं नैवास्ति तथा च शिशुमारादयस्तव नित्यसंनिसिता इत्यर्थ:॥

षष्ठी॥

मा न रुद्र तक्भना मा विषेण मा न: सं स्त्रा दिव्येनाग्निनो।

अन्यत्रास्मद् विद्युतै पातयैताम्।