पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  श्रीगणाधिपतये नमः ॥ निर्विघम् अस्तु ॥

                                            यस्य निश्र्वसितं वेदा यो वेदेभ्योखिलं जगत् ।
                                             निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्र्वरम् ॥ 
     एकादशकाण्डे  () । प्रथमेनुवाके सप्त सूक्तानि । तत्र " अझे जायस्व" इत्यादिसूक्तचतुष्टयम् अर्थसूक्तम् । तेन ब्रह्मौदनसये निरूमहविरभिमर्शनसंपातदातृवाचनदानानि कुर्यात् । तत्र "अझे आयस्व" इति भथमया ब्रह्मौदनादिसवयग्येषु मथ्यमानम् अग्रिम् अनुमन्त्र्येत । " कृणुत धूमम" इति द्वितीयया मथनसमये उत्पद्यमानधूमानुमन्त्रणं कुर्यात् । " अझेजनिष्ठाः" इति तृतीयस्यास्त्रिभिः पादैर्मथ्यमानं जाताझिम् अनुमन्त्रयेत । "अस्यै रयिम् " इति चतुर्थेन पादेन पल्यै फलं () अझिम् अनुमन्त्रयेत । "समिद्धः" इति चतुर्थ्या काष्ठैः प्रज्वाल्यमानम् अग्रिम् अनुमन्त्रयेत । "उत्तमं नाकम्" इति चतुर्थे पादं दातारं वाचयेत् । यद् आह कौशिकः । "आझीन् आधास्यमानः सवान् वा दास्यन् संवत्सरं ब्राह्मौदनिकम् अग्रिं दीपयति " इत्युकम्य " अझे जायस्वेति मथ्यमानम् अनुमन्त्रयते । पत्नी मन्त्रं संनमयति यजमानश्र । कृणुत धूमम् इति धूमम् अझेजनिष्ठा इति जातं समिद्धो  "अझिरिति समिध्यमानम्" इति ॥ 
    ब्रह्मौदनसवयग्य एव देवपितृमनुप्यार्थे व्रीहिराशीन् त्रेधा विभत्वान् " वेधा भागः" इति ऋचस्त्रिभिः पादैः कर्ता अनुमन्त्रयेत । "यो देवानाम्" इति चतुर्थपादेन पत्नीम् अनुमन्त्रयेत । "अझे सहरगन्" इति () दातारन् अनुमत्य देवभागं कुम्म्यां निर्वपेत् । सूत्रितं हि ।