पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सी:|तथा न: अस्मदीयं पितरं मातरं च मा हिंसी: | तथा न: अस्माकं स्वाम् स्वकीयां तन्वम् शरीरं मा रीरिष: मा हिंसी:|रिष रुष हिंसायाम्| ण्यन्तात् लुङि चङि रूपम्| " न माङ्योगे" इति अडभाव:||

                                  दशमी||

रुद्रर्स्यॅलबकारेर्भ्योसंसूक्तगिलेर्भ्य:| इदं महार्स्येभ्य: श्वर्भ्यो अकरं नर्म:||३०|| रुद्रर्स्य| ऍलबSकारेभ्य:|असंसूक्तSगिलेर्भ्य:| इदम्| महाSओस्येभ्य:|श्वSर्भ्य:|अकरम्| नर्म:||३०||

अत: परं महादेवस्य परिवारा नमस्कारेण प्रार्थ्यन्ते| रुद्रस्य महादेवस्य संबन्धिभ्य:ऍलवकारेभ्य:| इल प्रेरणे| अस्माद् भावे घज़् | ततो मत्वर्थीयो वकार:| एलवानि प्रेरणयुक्तानि कर्मा‌णि कुर्वन्तीति एलवकारा: कर्मकरा:प्रमथगणा:|तेभ्य:अहं नमस्करोमि| तथा असंसूक्तगिलेभ्य:| सम्यक् सूक्तं शोभनं भाषितं संसूक्तम्|तद्विपरीतम् असंसूक्तम् असभीचीनम् अशोभनवचनं गृणन्ति भाषन्त इति असंसूक्तगिला:| गॄशब्धं इत्यस्माद् ऑणादिक इलच् प्रत्ययष्टिलोपश्च| यद्वा ताहग्भाषणं यथा भवति तथा गिरन्ति भक्षयन्तीति असंसूक्तगिला:| गॄ निगरणे इत्यस्मात् पचाद्यच्|गुणं बाधित्वा "ऋत इह्वातो:" इति व्यत्ययेन इत्तम्|"अचि विभाषा" इति लत्वम्|गल अदने इत्यस्माद् वा अच् प्रायय:| छान्दसम् इत्वम्|एवंभतेभ्यो रुद्रगणेभो नमस्करोमि|| भहास्येभ्य: महत् प्रभूतम् आस्यं मुखविवरम् एषाम् अस्तीति महास्या:| "आन्महत्त:" इति आत्त्वम्|मृगयाविहारार्थ किरातवेष धारिणो देवस्य संभन्धिभ्य: [श्वभ्य:] सारमेयेभ्य: इदं नम: अ-