पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करम् करोमि| करोतेश्छान्दसो लुङ्| "कृमृदृरुहिभ्यश्छन्दसि" इति च्लेः अङ् आदेशः ||

एकादशी ||

नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः | नमो नमस्कृताभ्यो नम: संभुञ्जतीभ्यः | नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ||३१ ||

नमः | ते | घोषिणीभ्यः | नमः | ते | केशिनीभ्यः | नमः | नमःऽकृताभ्यः | नमः |त्तम्ऽभुञ्जतीभ्यः | नम: | ते | देव | सेनाभ्यः | स्वस्ति | न: | अभयम् । च । नः ||३१ ||

हे रुद्र ते त्वदीयाभ्यो घोषिणीभ्य: प्रभूतघोषयुक्ताभ्यः सेनाभ्यः नमोस्तु | तथा ते त्वदीयाभ्यः केशिनीभ्यः विपरीताकृतिकेशयुक्ताभ्यः विकीर्णकेशयुक्ताभ्यो वा सेनाभ्यो नमोस्तु | याश्च त्वदीयाः सेना नमस्कृताः चण्डेश्वरप्रभृतयः ताभ्यश्च नमोस्तु | संभुञ्जतीभ्यः सहभोजनं कुर्वतीभ्यः सेनाभ्यो नमोस्तु | हे देव रुद्र ते त्वदीयाभ्यः उक्तव्यतिरिक्ताभ्यः सेनाभ्यो नमोस्तु| हे देव त्वत्प्रसादात् नः अस्मभ्यं स्वस्ति क्षेमम् अभयं चन भयराहित्यमपि भवतु | स्वस्तिशब्दयोगात् स्वस्त्यनकर्मणि विनियोगः | भयराहित्यप्रार्थनाच्च अद्भुतशान्तावपि | इति लिङ्गानुसारेण सर्वत्र विनियोगो द्रष्टव्यः ||

सप्तमसूक्तम् |

इति सायणाचार्यविरचिते अथर्वसंहिताभ्याष्ये एकादशकाण्डे प्रथमोनुवाक: ||

द्वितीयेनुवाके षट् सूक्तानि | तत्र "तस्यौदनस्य" इत्यादिसूक्तत्रयम् अर्थसूक्तम् | तेन बृहस्पतिसवाख्ये सवयज्ञे हविरभिमर्शनसंपातदातृवाचनदानादीनि कर्मणि कुर्यात् || तथा अभिचारकर्मणि सवविधानेन आदेनं पत्त्का पृषानकेन उपसिच्य