पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्यं इत्थम् ओदनस्य देवतारुपाणि अङ्गानि परिकल्प्य तत्साधनेध्वपि देवतारुपत्वं संपादयति ||

      चक्षुर्मुसलं काम उलूखलम् ||३||       
        चक्षुः| जुसलम् |कामः |उलूखलम् ||३||
     दितिः शूर्पमदितिः शूर्पग्राही वातोपानविनक् ||४||
         दितिः|शूर्पम् |अदितिः |शूर्पsग्राही| वाताः| अप| अविनक् ||४||
अस्य उश्र्त्नमहिमोपेतस्य ओदनस्य उपादानभूतव्रीह्यननार्थे यन्मुसलं तच्चक्षुः चक्षुरिन्द्रियम् |यत् उलूखलं स कामः अभिलावः  |मुसलोलुखले हविरवहननार्थे चक्षुरादिरुपेण भावनीये इत्यर्थः || दितिः असुरमाता सैव  परापवनार्थं शूर्पम् | अदितिः देवमाता सा शूर्पग्राही तस्य शूर्पस्य ग्राहीत्री  |
या शूर्पेण परापुनाति सा अदित्यात्मना भावनीयेत्यर्यः | वातः वायुः अपाविनक् व्रीहिभ्यस्तण्डुलानां विवेचयिता अभवत् | विवेचयितरि वायुदबुद्धिः कार्येत्यर्थः| अत एव तैग्तिरीयके "वायुर्वो विविनत्तु" इति भन्त्त्रवर्णः [ तै• सं •१ •१• ५• २ ] | विचिर् पृथग्भावे | अस्मात् लङि रुधादित्वात्  श्र्नम्  | "हल्रङयाठभ्यः" इति तिलोपे "चोः कुः " इति कुत्वम् ||
       ओदनस्य विराडात्मना उपासनम् अभिधित्सुस्त्तत्संबन्धिनां कणाट्रीना तन्तद्वस्त्वात्म्क्त्वेन तस्य  ओदनस्य सार्वात्म्यं प्रतिपादयति ||
    अश्र्वाः कणाः गावस्तण्डुला मशकास्तुषाः ||५||
    अश्र्वा | कणाः | गावः | तण्डुलाः| मशकाः | तुषाः ||५||
      कब्रु पालीकरणाः शरोभ्रम् ||६||
  कब्रु | फली करणाः | शरः | अभ्रम् ||६||