पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्डम् |

 त्वमोदनं प्राशी३स्त्वायोदना३ इति || २७ || 
 त्वम् | ओदनम् | म आंशी३:| त्वाम् | ओदना३:| इति || २७ ||

ब्रह्म वेद: तद् वदितुं शीलम् एषाम् इति ब्रह्मवादिनो ब्रह्मविचारका महर्षय:| ते संभूय वदन्ति परस्परमं भाष्यन्ते | हे देवदत्त त्वम् इमम् ओदनं पराञ्चम् पराङ्ग्मुखम् स्थितं प्राशी: प्राशितवान् असि उत प्रत्यञ्चम् आत्माभिमुखं स्थितं प्राशितवान् असि | प्राशितुस्त्व प्राशितव्य: स ओदन: किं पराङ्ग्मुख: उत अभिमुख इति प्रश्न:| "विचार्यमाणाम्" इति सुत: || तथा हे देवदत्त त्वम् ओदनं प्राशी: भक्षितवान् असि अथ वा स एव ओदनस्त्वां प्राशीत् इति प्रश्नान्तरम् | अत्रापि पूर्ववत् सुत: || अत्र आद्ये प्रश्ने प्रथमकल्पे दोषम् आह ||

 पराञ्चं चैनं प्राशी: प्राणास्त्वा हास्यन्तीत्येनमाह || २t ||
 पराञ्चम् | च | एनम् | मऽआशी: | प्राणा: | त्वा | हास्यन्ति | इति | एनम् | आह || २t ||

चशब्दश्चेदथें | पराञ्च्म् पराङ्ग्मुखत्वेन स्थितम् एनम् ओदनं प्रशीश्चेत् प्राणा: प्राणवायव: त्वा त्वां हास्यन्ति त्यक्ष्यन्तीत्येनं प्राशितारम् आह विद्वान् ब्रवीतु | बहिर्मुख: प्राणो बहिर्मुखौदनप्राशनाय शरीराद् विनिर्गतो भवेद् इत्यर्थ:||

द्वितीयकल्पम् अनूद्य दूषयति ||

प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह || २९ ||
प्रत्यञ्चम् | च | एनम् | मऽआशी: | अपाना: | त्वा | हास्यन्ति | इति | एनम् | आह || २९ ||