पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ अथर्वसंहिताभाष्ये


    ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ॠषेयः प्राश्नन्। द्न्तोस्ते शत्स्यन्तीत्यैनमाह्। तं वा अह्ं नार्नाञ्चं न परोञ्चं न प्रत्यञ्चम्। ऋतुभिर्दन्तैः। तैरेनं प्राशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वोङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ६ ॥

ततः । च । एनम् । अन्यैः । दन्तैः । प्रआशीः । यैः । च । एतम् । पूर्वे । ऋषयः । प्रआश्नेन् ॥ दन्ताः । ते । शत्स्यन्ति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । परोञ्चम् । न । प्रत्यञ्चम् ॥ ॠतुभिः । दन्तैः ॥ तैः । एनम् । प्र । आशिषम् । तैः । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वअङ्गः । सर्वपरुः । सर्वतनूः ॥ सर्वअङ्गः । एव । सर्वपरुः । सर्वतनूः । सम् । भवति । यः । एवम् । वेद ॥ ६ ॥

यैर्दन्तैः एतम् ओदनं पूर्व ऋषयः प्राश्नन् ततोन्यैर्दन्तैश्चेत् एनम् ओदनं प्राशीः प्राशितुस्ते तव दन्ताः सत्स्यन्ति विशीर्णाः पतिष्यन्ति इति अनेन प्रकारेण एनं प्राशितारम् आह् अभिज्ञो ब्रूयात् । तं प्रति उत्तरं तं वा अहम् इत्यादि पूर्ववत् । ऋतुभिः वसन्तग्रीष्मादिभिर्दन्तैः । ऋतवः अस्य दन्ता इति अर्थाद् उक्तं भवति । तैः ऋत्वात्यकैर्दन्तैः एनम् ओदनं प्राशिषम् अतो नोक्तदोषप्र्सङ्गः । अन्यद् उक्तार्थम् ॥ "सप्तऋषयः प्राणापानाः" इति यत् प्राग् उक्तं तस्य इदानीम् उपयोगम् आह सप्तमेन मन्त्रेण ॥ ततेश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषेयः प्रानन् । प्राणापानास्त्वो हास्यन्तीत्येनमाह । तं ग अहं नार्वञ्चं न पराञ्चं