पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्डम्। अग्ने। जायस्व। अदितिः। नाथिता। इयम्। ब्रह्मऽओदनम्। पचति। पुत्रऽकामा। सप्तऽऋषयः। भूतऽकृतेः। ते। त्वा। मन्थन्तु। प्रऽजया। सह। इह॥१॥ हे अग्ने जायस्व मथनाद् उत्पद्यस्व। जनी प्रादुर्भावे। दिवादित्वात् श्यन्। "ज्ञाजनोर्जा" इति आदेशः। किमर्थे जननप्रार्थनम् इति आह। नाथिता नाथमाना याचमाना। नाथृयाञ्चायाम्। अस्मात् कर्तरि निष्ठा। इष्टफलम् आशंसत्राना इयम् अदितिः अदीना देवमाता पुत्रकामा पुत्रान् कामयमाना। "शीलिकमिभक्षाचरिभ्यो णः" इति कमेर्णप्रत्ययः। ब्रह्मौदनम्। ब्रह्मणे जगत्स्त्रष्ट्रे स्वाहाकारेण देय ओदनो ब्रह्मौदनः। यच्चा ब्रह्मौदनसवाख्ये अस्मिन् कर्मणि ब्राह्मणानां भोजनाय भागत्वेन कल्पित ओदनो ब्रह्मौदनः। तं पचति निर्वापादिक्रमेण पक्कं करोति। तदर्थम् हे अग्ने जायस्वेत्यर्थः। ब्रह्मौदनपाकेन अदितेः पुत्रोत्पत्तित्तैत्तिरीयके समाभ्नायते। "अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत्। तस्या उच्छेषणम् अददुः। तत् [प्राश्रात्]। सा रेतोधन्त। तस्यै चत्वार आदित्या अजयन्त" इति [तै'सं'६'५'६'१]। अदितिकर्तृकस्य ब्रह्मौदनपाकस्य पूर्वम् अतिवृन्तत्वेन इदनीम् अभावात् अदितिशब्दस्य स्थाने पत्नीयजमानयोर्नामग्रहणं कर्तव्यम्। यद् आह कौशिकः। "पत्नी मन्त्रं संनमयति यजमनश्च" इति [कौ'२] सप्तऋषयः सप्तसंख्याकाऋषयः अतीन्द्रियार्थस्य द्रष्टारो मरीच्यत्न्तिप्रमुखाः। "दिक्संख्ये संज्ञायाम्" इति संख्याशब्दस्य समानधिकरणेन उत्तरपदेन समासः। भूतकृतः भूतानां पृथिव्यादीनां कर्तारः स्रष्टारस्ते प्रसिद्धाः हे अग्ने त्वा त्वाम् इह अस्मिन् देवयजने प्रजया पुत्रपौत्रादिरूपया यजमानसंबन्धिन्या सह मन्थन्तु मथनेन उत्पादयन्तु। पन्थ विलोडने इति धातुः॥