पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तथेत्यर्थः । यच्च जङ्गमात्मकं वस्तु प्रणति प्राणनव्यापारं करोति यच्च स्थावरात्मकं न प्रणति प्राणनव्यापारं न करोति । किं तु आत्माचि नभतः मणः स्थावरेषु निरुद्धगतिरेव अन्तर्वर्तते । तस्य सर्वस्य स्थाव रजङ्गमात्मनो जगतः प्राणः खलु ईश्वरः ईशिता स्वामी ॥ [ इति ] चतुर्थं सूक्तम् । ॐ प्रणो मृत्युः” इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः । तत्र प्रथमा ॥ माणो मृत्युः प्राणस्तन प्राणं देवं उपसते । प्राणो वै सत्यवादिनमुत्तमे लोक आ दधत् ॥ ११ ॥ प्राणः । मृत्युः । आण । तकला । प्राणम् । देवाः । उपं । आसते । प्राणः । हु । सात्यऽवादिनम् । उत्प्रतमें । लोके । आ। दूधत ॥ ११ ॥ प्राण एव देवो मृत्युः स्वनिर्गमनेन सर्वप्राणिनां मरणस्य च * { । स एव प्राणस्तक्मा । कच्छुर्जीवनकरो ज्वरादिरोगः । तथा तं प्राण दे देहम ध्यवर्तिनं देवाः इन्द्रियाणि उपासते । स्वस्वविषयोपभोगाय सेवन्त इ न्यर्थः । यद्वा प्राणम् हिरण्यगर्भ समथ्यात्मकम अभ्यदयो देवा उधा सते । स एव प्राणः सत्यवादिनम् । सत्यं यथार्थं वदितुं शीलम् अस्य स तथोक्तः । सत्यवदनशीलं महानुभावम् उत्तमे उत्कृष्टतमे लोके आ दधत् आदधाति स्थापयति । द्वितीया । प्राणो विराट गुणो देष्ट्री प्राणं सर्व उपासते । माणः ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥ १२ ॥ प्राणः । विश्राट्। प्राणः । देहीं । भाणम् । सर्वे । उपं । आसते । प्राणः। हु । सूर्यः । चन्द्रमाः । प्राणम् । आहुः। प्रजाऽर्पतिम् ॥ १२ ॥ प्राण एव देवो विराट् स्थूलप्रपञ्चाभिमानी ईश्वरः । तथा प्रण दे ९२ . - २ B देध.