पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सु° ६२] ४८४ एकादशं काष्ठम् । ९३ श्री स्वस्वव्यापारेषु सर्वेषां प्रेरयित्री परदेवता । तथाविधं माणं सर्वे जना उपासते स्वाभिलषितफलसिद्धयर्थं सेवन्ते । प्राण एव सूर्यः सर्वस्य प्रेरक आदित्यः । तथा चन्द्रमाः अमृतमथः सोमोपि स एव । एतेन प्राण स्य अग्नीषोमात्मकाचम् उक्तम् । तथाविधमेव मार्गे प्रजापतिम् प्रजानां स्रष्टारं देवम् आहुः अभिज्ञाः कथयन्ति । * ‘‘पत्यावैश्वर्यं ५’ इति पूर्वपदमकृतिस्वरत्वम् # ॥ तृतीया । प्राणापानौ वीहियवार्वनयान घाण उच्यते । यवे ह प्रण आहितोपानो वीहरुच्यते ॥ १३ ॥ प्राणापानौ । मीहियवौ । अनङान् । प्राणः । उच्यते । घवें । ह। प्राणः । आऽहितः । अपानः। त्रीहिः । उच्यते ॥ १३ ॥ प्राणश्च अपानश्च प्राणापानौ मुख्यस्य प्राणस्य प्रधानभूतौ बृहि विंशे पौ । तावेव त्रीहिश्च यधश्च कीहियवौ । प्राणापानात्मक वियर्थः । यो वृतिमान् मुख्यः प्राणः सः अनयन् िउच्यते । त्रीहियवयोः कर्षणे न उत्पादयिता बलीवद वृत्रिमभ्राणमना ज्ञातव्य इत्यर्थः । . उक्तमेवार्थं विवृणोति ! यचे ह यवे खलु मणः प्राणवृश्यात्मको वायुः आहिः स ष्ट्रा स्थापितः । अपानवूयात्मकस्तु वायुः त्रीहिरुच्यते । श्रीहिषु अवस्था नेन तदात्मकः कथ्यत इत्यर्थः । अत एव तौ त्रीहियवौ ओषधीषु म ध्ये पुष्टिकरात्वेन सर्वप्राणिभिरुपजीव्यौ । अतां लोकरक्षणाय प्राण एव वीहियघानडुहूपेण कथ्यत इयर्थः । चतुर्थी । अयति माणंति पुरुषो गर्भ अन्तरा । यदा घं प्रण जिन्वस्यय स जयते पुनः ॥ १४ ॥ अयं । अनति । प्र। अनते । पुर्घः। गभी । अन्तरा । यदक्ष । त्वम् । आण । जिन्वसि । अथे । सः । जायते । पुनः ॥ १४ ॥