[अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४३ पूर्वार्धेन षट्ख्याका ऋषयः संबोध्यने । तत्र वसिष्ठो वसुमतमः एत- न्नामा ऋषिः । भरणाद् भारद्वाज इति यास्कः [नि°३. १७] । अ- न्ये शब्दा उक्तार्थाः । मृडता नः इत्येतद् वक्ष्यमाणं पदद्वयम. अत्रापि सं- बध्यते । हे विश्वामित्रादय ऋषयः नः अस्मान् मृडत सुखयत । अत्रिः एतत्संज्ञो महर्षिनः अस्माकं शर्दिः छर्दिः । गृहनामैतत् ।उछृ- दिर् दीप्तिदेवनयोः इत्यस्माद् अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः [उ. २. १०७] इति इसिप्रत्ययः । वर्णव्यत्ययः ।नः अस्मदीयं गृहम् अग्रभीत् अग्रहीत् । रक्षणार्थं गृहीतवान् इत्यर्थः । ग्रह उपादा- ने । “हग्रहोर्भः" इति भत्वम् । यद्वा 1शर्दतिर्बलकर्मा । 2शर्द- यति बलयतीति शर्दिः । एवंगुणविशिष्टः अत्रिर्नः अस्मान् अग्रहीत आ- त्मीयत्वेन गृहीतवान् । अथ वा शर्दिर्नाम कश्चिद् ऋषिः । अन्यत् पू- र्ववत् । तथा नमोभिः नमस्कारैः । यद्वा अन्ननामैतत् । दीयमानैरन्नैः कव्यरूपैहेतुभिः3 हे पितरः पितृदेवताः यूयं सुशंसासः सुष्टु शंसितुं स्तोतुं शक्याः । xशंसु स्तुतौ इत्यस्मात् “ईषदुःसुषु०” इति कर्मणि खल् प्रत्ययः । “आज्जसेरसुक्" । सुष्टुताः संस्तुिताः सन्तः नः मृडत अस्मान् सुखयत । मृडत । मृडं] सुखने ४ ॥ शवदहनदिवसे रात्रौ 5रिक्तकलशभञ्जनकर्ता “कस्ये मृजानाः” इति सप्तमीम् ऋचं जपेत् । ऋक्पाठस्तु [सप्तमी] ॥ कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । आप्यायमानाः प्रजया धनेनाध स्याम सुरभयौ गृहेषु ॥ १७ ॥ कस्ये। मृजानाः । अति । यन्ति । रिप्रम् । आयुः । दधानाः । प्रऽतरम् । नवीयः। १ A BC R V htre कस्ये मुजाना. D• कस्ये मृजाना clhanol 10 कस्य मुजाना. Ch कस्ये। मृजानाः ।. P" कस्ये । मृजानाः। K कस्य मृजाना. २C आयः ।। 18शर्धति. as amit in हेतुभिः. । S las alia से । lacuna for about sixty Jetters at the end of'n bieh cuker's garà instead of gah. at. Neither Nex'ike nor the keuri throw light 28 शर्धयति. IS रिक्तलशभंजन on the passage.
पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३९
एतत् पृष्ठम् परिष्कृतम् अस्ति