पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ अथर्वसंहिताभाष्ये र्जरयिता । ४जार इव भगम् आदित्योत्र जार उच्यते रात्रेर्जरयिते- ति यास्कः [नि°३. १६] । आ इति इवार्थे । जार इव आ- दित्य इव । स यथा भगम् भजनीयं स्वप्रकाशं द्यावापृथिव्यौ प्रति प्रे- रयति तद्वत् । लौकिको जारो भगम् योनिमिव इत्ययं दृष्टान्तस्तु स्पष्टं प्रतीयत एव । अथ वा जरा स्तुतिः । तत्कृत्वेन तत्संबन्धी जारः स्तो- ता । स च भगम् भजनीयं त्वाम् आ । प्लयति इत्यध्याहारः । अत उदीरयेति संबन्धः ॥ अथ परोक्षम् आह । इयक्षति यष्टुम् इच्छति यान् देवान् यजमानः । यजतेः सन् । अभ्यासस्य छान्दसं सं- प्रसारणम् । 1तान् हर्यतः कमनीयः स्पृहणीयोग्नि हृतः हृदयात् हृदयेनैव इष्यति इच्छति । 2स्वयं कर्तुम् इति शेषः ॥ किं च वह्निः ह- विषां वोढाग्निः मखः मखसाधनो महनीयो वा स्वपस्यते शोभनकर्म कर्तुम् इच्छते । “सुप आत्मनः क्यच्" । "नः क्ये" इति नि- यमात् पदसंज्ञाया अभावाद् रुत्वाभावः । यजमानाय विवक्ति ब्र- वीति । अभिलषितं तवेष्टं दास्यामीति भाषत इत्यर्थः । तथा तविष्य- ते । तविषिर्वृद्ध्यर्थः । वर्धिष्यते यजमानाय असुरः बल- वान अग्निः मती मत्या कर्मणा यागेन निमित्तेन वेपते कम्पते चलति आगच्छति ॥ चतुर्थी ॥ यस्ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो अति स प्र शृण्वे । इषं दधानो वहमानो अश्वैरा स धुमाँ अमवान् भूषति द्यून ॥ २४ ॥ यः। ते । अग्ने । सुऽमतिम् । मतः । अख्यत् । सहसः । सूनो इति । अति । सः। प्र। शृण्वे। इर्षम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युडमान् । अमऽवान् । भूषति । द्यून् ॥ २४॥ १BV D अमेधान्भूषति. We with AC k R. २P अक्षत् ।. We with P CP. ३CE भूषति । 18' त्वान्. 250S. I स्वयं a mistake for स्वकीयान् ?