पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ अथर्व संहिताभा स्वप्नः पूर्वम् असुरेभ्योधि असुरेभ्यः सकाशात् स्वयम् असुरपक्षीयः सन् तेभ्यः सकाशाद् देवान् उपावर्तत समीपं प्राप्तवान् । किमर्थम । म- हिमानम् महत्त्वं प्रभावम् इच्छन कामयमानः । महत्त्वैषणाद्वेतोरित्य- र्थः । पूर्वम् असुरेषु साधारणपुरुषत्वेन वर्तमानः ततोप्यधिकं श्रेयः का- मानो देवान मानोत् । यथा लोके परराष्ट्र राजसमीपवर्ती बलवान् पुरुषः स्वस्माद् राज्ञो बहुमानम् अलभमानः स्वराजशत्रुभूतराजसमीपं बहुमानार्थ गच्छति एवं दुःस्वप्नोषि आगत इति तस्मै स्वसमीपम् आ- गताय स्वप्नाय कष्टफलकारिणे दुःस्वप्नाय स्वः स्वर्गम् आनशाना: व्या- तवन्तः । अनोतेर्लिट : कानचि “अनोतेच" इति नुडागमः ष्ट । त्र- यस्त्रिँशासः त्रयस्त्रिंशत्संख्याकाः 'अष्टौ वसव एकादश रुद्रा द्वादशा- दित्याः प्रजापतिश्च वषट्कारश्च" इति [ ऐ० ब्रा० १.१०] समाम्नात्ता दे- वाः । ४ सर्वेषां त्रयस्त्रिंशत्संख्यापूरणत्वात् डट् प्रत्ययः कृतः । “आ- जसेरसुक्" 8 । आधिपत्यम् सर्वलोकानिष्टकारित्वलक्षणं स्वामित्वं दधुः विदधुः कृतवन्तः । दत्तवन्त इत्यर्थः ॥ चतुर्थी ॥ तां विदुः पि॒तरो नोत दे॒वा येषां॒ जल्प॒श्चर॑त्यन्त॒रेद॑म् । त्रि॒ते स्वप्न॑म॒दधुरा॒ये नर॒ आदि॑त्यासो व॑रु॑णे॒नानु॑शिष्टाः ॥ ४ ॥ न । ए॒ताम् । वि॒दुः । पि॒तर॑ः । न । उ॒त । दे॒वाः । येषाम् । जल्पिः । च- रेति । अ॒न्त॒रा । इ॒दम् । । त्रि॒ते । स्वप्न॑म् । अ॒द॒धुः । आ॒प्त्ये । नर॑ । आदि॑त्यासः । वरुणेन । अनु- शिष्टाः ॥ ४ ॥ एषां त्रयस्त्रिंशत्संख्याकानां देवानां याँ जल्पिः दुःस्वप्नाय प्राणिनां त- १ A नैतां विदुः C+ नेतां विदुः. We with BCDKKR SVD. So we read with A B C D KKR 3 VDCs PÉJ. ADR SVD °त्य॑त॒रे॒तम् BC त्य॑त॒रेत. We with RCP PJ ABCDRVC PÉ J तृते. We with K K S Dc. ५ A BCDKKR SVDC अरुणे.. PPJ अरुणेन . We with Cs. ४ ३ 1 राजसमीपे 2 Sáyana's text has यैषां for our येषां.