पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ अथर्व संहिताभाष्ये २,६,१] समामनन्ति । घृतस्य जूतिरिति परमात्मनः स्वरूपविषयं ज्ञा- नम् । कीदृशी । समनाः समानमनस्का सर्वेषां प्राणिनां मनांसि य- स्मिन् प्रज्ञाने समाश्रितानि । सदेवा देवाः इन्द्रियाणि सर्वप्राणिसंबन्धीनि तत्सहिता परमात्मविषया बुद्धि: संवत्सरम् संवसन्त्यत्र भूतानीति संवासरः परमात्मा तं हविषा शब्दस्पर्शादिरूपप्रपञ्चेन हूयमानेन वर्धयन्ती पुष्णती भवति । वस्तुकृतपरिच्छेदपरिहार एव परमात्मनः पोष इत्यर्थः । श- व्दादिविषयाणां ज्ञानाग्नौ होमो भगवताप्युक्तः श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति । सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते । इति [ भ० गी०४, २७] ॥ एवं ज्ञानयज्ञप्रवर्तकानां नः अस्माकं श्रोत्र चक्षुः प्राणः । एतद् उपलक्षणं ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च । प्राणः शरीरधारको वायुः अच्छिन्नः अविनश्वरः अस्तु । वयं च आयुषो जी- वनस्य वर्चसस्तेजसः अच्छिन्नाः छिन्नं छेदः विनाशः तद्रहिता भूयास्म । इन्द्रियादीनां बाह्यविषयप्रवर्तनपरिहारेण आत्मविषयत्वकरणेन तेषां विच्छे- दाभाव आशास्यते ॥ द्वितीया ॥ उपा॒स्मान् प्रा॒णो ह॑यता॒मुप॑ व॒यं प्रा॒णं ह॑वामहे । वर्चो जग्राह पृथि॒व्य॑त्र॒न्तरि॑क्षं वर्च॒ः सोमो॑ बृह॒स्पति॑र्विध॒त्ता ॥ २ ॥ उप॑ । अ॒स्मान् । प्रा॒णः । ह्वा॑य॒ताम् । उप॑ व॒यम् । प्रा॒णम् | हवामहे । वर्च॑ः । जग्राह॒ । पृथि॒वी । अ॒न्तरि॑क्षम् । वचैः । सोम॑ः । बृह॒स्पति॑ः । वि॒ऽ- धत्ता ॥ २ ॥ । १ A B C $३ for १ . C. ज॒ग्राह॑ पृथि॒व्या॒तरि॑°. We with DKK VDC. 2 A B C ति॑ध॒र्ता D°स्पति॑र्य॒त्ता R °स्पति॑ध॒र्त्ता KV °स्पति॑र्धत्ताम् K °स्पति॒र्विध॒र्ता Do स्प ति॑र्च॒त्ता changed to °स्पति॑र्य॒तां Cs °स्पति॑र्धृत्तात्. PÉJ बृह॒स्पति॑ः । ध॒र्ता | Sayana's text : विधत्तां. We with $ 3 PP इयम् ।. We with J. ३