पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५, सू० ३९. ] ५४३ एकोनविंशं काण्डम् । ४३५ नद्य कुष्ठाख्योषधे तव नामग्रहणाभावे अयं व्याधितः पुरुषो रिषत् हिं- सितो भवेत् । अतः व्याधितरक्षक इति समुदितं नामेति मन्तव्यम् । एवं नामत्रयेण अभिधीयमान कुष्ठाख्यौषधे त्वा त्वां यस्मै रोगार्ताय पु- रुषाय परिब्रवीमि मन्त्रत्वेन तव नामानि उच्चारयामि । कस्मिन् काल इत्युच्यते । सायंप्रातच उभयसंध्ययोः । अथो अपि च दिवा द्योतमाने । मध्याह्ने इत्यर्थः । औषधप्रयोगे उक्तकालत्रयस्य प्राशस्यात् । यद्वा दिवा कृत्स्नेप्यहनि उभयोः संध्ययोश्च ॥ उक्तमेवार्थं नामेव्यपदेशेन आदरार्थ पुनराह नद्यायं पुरुषो रिषत् इति । यद्वा हे नद्य हे औषध यस्मै द्वेष्याय परि ब्रवीमि अयं द्वेष्यः पुरुषो रिषत् नश्यतु इति व्याख्येयम् ॥ तृतीया ॥ जीवला नाम॑ ते मा॒ता जा॑व॒न्तो नाम॑ ते पि॒ता । नद्ययं पुरु॑षो रिषत् । मैं परिवमित्वा सायंप्रा॑त॒रयो॒ दिवा॑ ॥ ३ ॥ । जीव॒ला । नाम॑ । ते । मा॒ता । जीव॒न्तः । नाम॑ ते॒ । पि॒ता ॥ नद्य॑ । अ- यम् । पुरुषः । रिषत् । यस्मै । परिब्रवीमि । त्वा । सायम्ऽमा॑तः । अथो॒ इर्त । दिव ॥ ३ ॥ हे कुष्ठाख्यौषधे ते तव माता जीवला नाम जीवयतीति जीव- ला | मत्वर्थीयो लः ४ । जीवयित्रीत्यर्थः । एतन्नामिका | एवं ते तव पिता जनकोपि जीवन्तः जीवयतीति जीवन्तः । व- सन्त इतिवत् ४ । संज्ञकः । यतस्तव पितरौ रोगादिपरिहारेण जीवदौ अतस्त्वमपि तामहिमोपेत इति भावः ॥ नयायं पुरुष इत्या- दि पूर्ववत् ॥ १ ABCDKKR SV यस्मै परि ग्रवीमि See note २ on mantra २. 1 $ नामव्यपदेशेनोक्तमादार्थ. 2 Sayana's text reads the words नद्यायं पुरुषो रिषत् again after सायंप्रातरथो दिवा, and it is to this repetition that Sáyana refers in the present passage. All our MSS. and Vaidikas omit the second नद्यायं पुरुषो रिषत्, both in this and in the two following mantras. 3 S' औषध. 4 See note 2.