पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ६४.] ६१२ एकोनविंशं काण्डम् । अव्यर्सः 1 च॒ । व्यंच॑सः । च । बिल॑म् । वि॑ि । स्यामि॒ । मा॒यया॑ । । ताभ्या॑म् । उ॒ऽहृत्य॑ । वेद॑म् । अय॑ । कर्म॑णि । कृ॒ण्म॒हे ॥ १ ॥ व्यचसः । श्छान्दसः ४ । । ५४७ " ४ व्यचतिर्व्याप्तिकर्मा । व्याप्तस्य सर्वशरीरव्याप- कस्य व्यानवायो; समष्टिरूपस्य अव्यसः अव्यचसः । X वर्णलोप- अव्याप्तस्य व्यष्टिरूपस्य प्राणात्मकस्य वायोः । प- रस्परसमुच्चयार्थी चकारौ । “व्यचेः कुटादिवम् अनसीति वक्तव्यम इति पर्युदासाद् ङित्त्वाभावेन संप्रसारणाभावः ४ । तयोर्बलम् - लवहिलं मूलाधारं मायया । कर्मनामैतत् । कर्मणा अभिभवनव्यापारेण वि ष्यामि विवृतं करोमि । स्पतिरुपसृष्टो विमोचने इति नैरु- ता: [ नि ०१.१७ ] । शब्दं विवक्षोः पुरुषस्य प्रयत्नजनितवायुवशाद् मूलाधारे स्पन्दो भवतीति आगमिका आहुः “मूलाधारात प्रथमम् उदि- तो यस्तु भावः पराख्यः” इति । ताभ्यां व्यानप्राणाभ्याम् । करणे तृतीया 8 । वेदम् अक्षरात्मकमन्त्रसंघ उद्धृत्य बिलरूपाद् मूला- धारात् परापश्यन्तीमध्यमावैखरीक्रमेण उद्गमय्य अथ अनन्तरं कर्माणि श्रौतानि स्मार्तानि च कृण्महे कुर्महे ॥ यद्वा अव्यचसः अव्याप्तस्य प- रिच्छिन्नस्य जीवात्मनः व्यचसः व्याप्तस्य परमात्मनश्च बिलम् उपल- forस्थानं हृदयं मायया अज्ञानेन वि ष्यामि विमुक्तं विरहितं करोमि । हृदये अज्ञानावृते सति कर्तव्याकर्तव्यविभागो न भवति । अतः का- र्याकार्यविभागैर्कज्ञानपरिपन्धिनं मूढभावम् अंपसारयामीत्यर्थः । ताभ्यां जीवपरमात्मभ्यां वेदम् चिकीर्षितकर्मविषयं ज्ञानम् उद्धृत्य संपाद्य अथ अनन्तरं कर्माणि नित्यनैमित्तिककाम्यानि कृण्महे कुर्महे । चिकीर्षितस्य कर्मणः स्वरूपम् तत्साधनकलापम् तदङ्गकलापम् तत्फलम् तत्कर्मप्रतिपाद- कमन्त्रब्राह्मणयोरर्थं च विदित्वा कर्मारब्धव्यम् इत्युक्तं भवति ॥ [इति] सप्तमेनुवाके दशमं सूक्तम् ॥ PP J अविऽअसः ।. २ Sce foot-note ३ on the previous page. ३ See foot-note ४ on the previous page. 18' 'विभावेक 25 उप° 38 चिकीर्षितं.