पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७, सू०७१.] ६१५ एकोनविंशं काण्डम् । ५४९ आयुष्मन्तः स्थ भवथ । भवदनुग्रहाद् अहमपि जीव्यासम जीवनवान् आयुष्मान भूयासम् । अनेनाचमनकर्मणा इति विनियोगाद् अवगम्य- ते । कतिपयकालावस्थानमपि जीवनं भवेद् इति तत्राह सर्वम् इति । सर्वे संपूर्ण शतसंवत्सरपरिमितम् आयुर्जीव्यासम प्राणाय धारयेयम् । एवम् उत्तरे मन्त्रा व्याख्येयाः ॥ उपजीव्यः । उपशब्दः अधिकार्थः । अधिकं जीवनवन्तः । उपजीवयन्ति संनिहितान् भजकान् आयुष्मतः कु- र्वन्तीति वा उपजीव्याः ॥ संजीव्याः समीचीनजीवनवन्तः जीवनकाले एक: क्षणोपि वैयर्थ्येन न नीयते किं तु परोपकारित्वेनेति आयुषः सम्यक्त्वम् ॥ जीवलाः जीवः प्राणधारणम् । Xभावे घञ् । “सि- ध्मादिभ्यश्च " इति मत्वर्थीयो लच् ॥ हे इन्द्र परमैश्वर्यसंपन्न स- वेन्द्रियप्रकाशकत्वं जीव आयुष्मान भव । हे सूर्य सर्वस्य प्रसवितस्त्वं जीव । हे देवाः इन्द्रसूर्यव्यतिरिक्ता अभ्यादयो यूयं जीवाः । भवति अनुषक्तक्रियापदस्य बहुवचनान्तत्वेन परिणमनम् । युष्मत्प्रसादाद् अहम् आचमन कर्मकर्ता चिरकालपर्यन्तं प्राणान् धारयेयम इति आयुराशास्यते ॥ [इति ] सप्तमेनुवाके एकादशं सूक्तम् ॥ " स्तुता मया वरदा" इति एकर्चस्य सूक्तस्य अधीतस्य वेदस्य गायत्र्या वा उपस्थाने लैङ्गिको विनियोगो द्रष्टव्यः ॥ ऋक्पाठस्तु । स्तुता मया॑ वर॒दा वैद॑मा॒ता प्र चा॑दयन्त पावमा॒नी वि॒जाना॑म् । आयुः प्राणं प्र॒जां पशुं कीर्ति द्रविणं ब्रह्मवर्चसम् । दुत्वा जत ब्रह्मलोकम् ॥ १॥ स्तु॒ता । मया॑ व॒रदा । वेद॑मा॒ता । प्र । चोद्यन्ताम् । पावमानी । द्विजाना॑म् । १ ABC KKR वैभात प्रचो॒दय॑तां. D वैदमाता प्रचो॒दय॑तां De वे॑द॒मा॒ता प्रचो॒दय॑त changed to वे॑द॒माता॑ प्रचो॒दय॑तां Cs वे॒दमा॑ता प्रचो॒दय॑तां॒ changed to वे॒दम॒ता प्रचो॒दय॑तां. $ वे॒दमा॒ता प्रचोद. PJ वे॒द्ऽमा॒ता । प्र॒ऽचो॒दय॑ताम् ।. P Ce the same except that they care not accented. ACDR SV पशूं. Cs पशु. De प॒शूं changed to प॒शून्. We with BRPPJ and Sayana's text. 1S प्रविनियोगाद्. 28 वैयर्थेन 35 नीयत इति.