पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० अथर्वसंहिताभाष्ये आर्युः । प्राणम् । प्र॒जाम् । प॒शुम् । कीर्तिम् । द्रवि॑णम् | ब्र॒ह्म॒ऽवर्चसम् । ह्य॑म् । दुवा । व्रजत् । ब्रह्मलोकम् ॥ १ ॥ स्वानुष्ठितकर्मणो निरभिसंधिना सर्वार्थ फलाशासनं स्वस्याविकलं भ- वतीत्यभिप्रायेण मन्त्रद्रष्टा ऋषिः स्वानुष्ठितवेदाध्ययनेन गायत्रीजपेन वा द्विजानाम् आयुरादिफलम् आशास्य तन्मध्यवर्तिनः स्वस्यापि फलं सि- द्धवद् अनुवदति । मया वेदाध्यायकेन सावित्रीं जपता वा स्तुता अ- भिष्टुता स्वभ्यस्ता वरदा इष्टकामप्रदात्री पावमानी । पवमानः पापात् परिशोधकः सूत्रात्मा । 'वायुरेव पवमानो दिशो हरित आविष्टः इति ऐतरेयकश्रुतेः [ ऐ० आ०२, ११] । तत्प्रतिपादिका पात्रमानी वे- दमाता वेदस्य ऋगादिरूपस्य माता सर्ववेदसारत्वेन मातृवत्प्रधानभूता सावित्री वेद एव वा माता मातृवद्धितकारित्वात् । 66 वेद एव द्विजातीनां निःश्रेयसकरः परः । " प्रेरयतु "ब्रह्महस्तिभ्यां इति स्मृतेः । द्विजानाम द्विजन्मनां ब्राह्मणानां त्रैवर्णिकानां वा आयुरा- दिफलानि प्रचोदयन्ताम् । ४ पूजायां बहुवचनम् । प्रयच्छतु । ब्रह्मवर्चसम् ब्रह्मणां वर्चः ब्राह्मं तेजः । वर्चसः" इति अच् समासान्तः ४ । ' अथ मह्यं स्तोत्रे सर्वेषां फ- लप्रार्थकाय दत्त्वा आयुरादिकं फलं वित्तीर्य ब्रह्मलोकम् ब्रह्मणो लोकः सत्यलोकः ब्रह्मैव वा लोकः लोक्यमानं विद्वद्भिरनुभूयमानं परतत्त्वं व्रज- त । इति प्रत्यक्षवादः । ४. अत्रापि पूर्ववद् बहुवचनम् ४ । दावगम्यब्रह्माकारं परित्यज्य वाङ्मनसातीतार्थब्रह्मरूपा भवेति मन्त्रदर्शि- ना ऋषिणा साक्षात्कृतपरत्वेन उच्यते ॥ [इति] सप्तमेनुवाके द्वादशं सूक्तम् ॥ श- 'यस्मात् कोशात्" इति एकच सूक्तं सर्वेषु श्रौतस्मार्तकर्मसु ब्रह्मो- त्थापनानन्तरं जपेत् । स्वाध्यायोत्सर्जनकर्मणि च अन्ते जपेत् । सूत्रितं हि कौशिकेन संहिताविधौ । “ पौषस्यापरपक्षे त्रिरात्रं नाधीयीत तृती- 1 S' फलाशासने. S' प्रगच्छतु.