पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ७२.] ६१६ एकोनविंशं काण्डम् । ५५१ “यस्याः प्रातः समासं संदिश्य यस्मात् कोशादित्यन्तः” इति [ कौ० १४.३] ऋक्पाठस्तु ॥ यस्मा॒त् कोशा॑दु॑दभ॑राम॒ वेद॒ तस्मि॑न्न॒न्तरव॑ दध्म एनम् । कृ॒तमि॒ष्ठं ब्रह्म॑णो वी॒र्ये॑ण॒ तेन॑ मा देवा॒स्तप॑सावते॒ह ॥ १ ॥ यस्मा॑त् । कोशा॑न् । उ॒त्ऽअभ॑राम । वेद॑म् । तस्मिन् । अ॒न्तः । अव॑ । द॒ध्मः । एनम् । कृ॒तम् । इ॒ष्टम् । ब्रह्म॑णः । वीर्येण । तेन॑ । मा । दे॒वाः । तप॑सा । अ॒वत । इ॒ह ॥ १ ॥ 66 यस्मात् 'अव्यसश्च व्यचसश्च" इति मन्त्रे प्रतिपादिताद् मूलाधार - रूपाद् वा कोशात् कोशवत्कोशः यथा कोशाद् धनवस्त्ररत्नादिपूर्णाद् अपेक्षितं वस्तु आनीयते एवम् अस्य सर्ववर्णमन्त्रायतनत्वात् तत एवो - द्वार इति तत्त्वेन व्यपदेशः । वेदम् विदन्त्यनेन प्रत्यक्षाद्यविषयम् उ- पायम् इति वेदः । उक्तं हि । प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एतं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥ इति । श्रौतस्मार्तसकलकर्मप्रतिपादकमन्त्रब्राह्मणरूपं वेदम् उदभराम उ- हृतवन्तः । कर्मानुष्ठानार्थम् उच्चारितवन्तः स्मः । ४" ग्रहोर्भः" इति भत्वम ४ । तस्मिन् पूर्वोक्ते स्थाने एनं येन कर्माण्यनुष्ठितानि तम एतम अन्वादिष्टं वेदम अन्तः मध्ये अव दध्मः पुनः स्थापयामः । कर्मप्रयोगार्थं स्वमुखाद् उच्चारिता वर्णरूपा मन्त्रास्तथैव यदि निःसरे- युस्तर्हि उत्तरकाले मन्त्राभावेन कर्मानुष्ठानं न भवेद् इति पुनः पूर्वोक्त एव वेदोद्धरणापादानस्याने वेदनिधानम् उक्तम् इत्यभिप्रायः । ब्रह्मणः १ D°दुभराम॒ वेद्ं. K Ê VCR ° दुदभ॑राम वें. S कोशाद्व॒दद्भरा॑म वे॒दं De कोशावुदर्भ- राम॒ वेषु॑ changed to कोशा॑इ॒दध॑राम वे. PJ उ॒त् ऽअभ॑राम । वे॒दम् ( J वेद॑म् ) । AB ऋत॰. _C कृत° changed to ॠत°. We with D KKR SVDCs. 18 दिशति for संदिश्य 28 °दित्यंतत इति fir °दित्यन्तः इति 3S स्थान एव.