पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ अथर्वसंहिताभाष्ये देशकालवस्तुपरिच्छेदशून्यस्य परमात्मनो वीर्येण वीर्यरूपेण कर्मप्रतिपाद- केन वा वेदेन कृतम् यत् कर्म ब्रह्मयज्ञादिकं निष्पादितम् इष्टम् यत् स्वा- हावौषडादिशब्दैर्देवतार्थं हविः प्रतं तेन कृतेन इष्टेन च कर्मणा हे देवाः यूयम् इह कर्मलोके तपसा । तपः शब्देन फलं विवक्ष्यते । कर्मफलेन मा माम अनुष्ठातारम् अवत रक्षत तर्पयत । कर्म अविकलं कृत्वा त- त्फलेन मां संयोजयतेति यावत् । यद्वा तपसा कृच्छ्रानुष्ठितेन कर्मणा माम अवत । अथ वा तपसा । तपः पर्यालोचनम् । तद्रूपेण तेन ब्रह्मणो वीर्येण मां संतर्पयतेति ॥ एकोनविंशे काण्डे सप्तमेनुवाके त्रयोदशं सूक्तम् ॥ सप्तमोनुवाकः समाप्तः ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थाश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ इति श्रीमद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहर महाराजसाम्राज्यधुरं धरेण सायणार्यविरचिते माधवीये अथर्ववेदसंहिताभाष्ये वेदार्थप्रकाशे एकोनविंशं काण्ड समाप्तम् ॥ श्रीविद्याशंकरार्पणम अस्तु ॥