पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणाधिपतये नमः ॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ शान्तिकं पौष्टिकं कर्म प्रायशः प्राक् प्रपञ्चितम् । विंशेथ ब्रह्मवर्ग्याणां शस्त्रयाज्यादि वर्ण्यते ॥ तत्र विंशे काण्डे नवानुवाकाः । तत्र प्रथमेनुवाके त्रयोदश सूक्ता- नि । तत्र प्रथमं सूक्तं तृचात्मकम् । तास्तिस्र ऋचः अग्निष्टोमादियज्ञेषु ब्राह्मणाच्छंसिपोत्रग्नीभ्राणां क्रमेण प्रातःसवनिक्यः प्रस्थितयाज्याः । सू- त्रितं हि वैताने । “प्रस्थितैश्चरिष्यन्नध्वर्युः संप्रेष्यति । होतर्यज प्रशास्त- "ब्रह्मणाच्छंसिन पोतनेंप्टरनीद् इति । इन्द्र त्वा वृषभं वयम् इति “ब्राह्मणाच्छंसी यजति । उत्तराभ्यां पोत्राग्नीधौ” इति [ वै० ३.९] ॥ तत्र प्रथमा ॥ इन्द्र॑ वृष॒भं व॒यं सुते सोमें हवामहे । स पा॑हि॒ मध्वो अन्ध॑सः ॥ १ ॥ इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒महे॒ 1 स । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥ १ ॥ 1 अथ हे इन्द्र परमैश्वर्यगुणविशिष्ट । ४ इदि परमैश्वर्ये । ऋजेन्द्र [उ० २. २] इत्यादिना न प्रत्ययः । नित्त्वाद् आद्युदात्तः ४ । वा इन्दौ सोमे निमित्तभूते सति द्रवति वरया गच्छतीति इन्द्रः । aai इन्दवे सोमाय तत्पानार्थ द्रवतीति वा इन्द्रः । सत्सु अन्येषु द- धिपयःप्रभृतिषु द्रव्येषु सोमस्यातिशयेन मियत्वाद् उक्तव्युत्पत्तिरिन्द्रशब्द- 1S' 'पोतानी'. ७० 2 S' प्रस्थितेश्चरिष्यत्यध्वर्युः 38 द्रवत इति वा.